________________
क्षमारत्नीया-| वचूर्युपेता
श्रीपिण्डनियुक्तिः।
करणं, उत्ष्वष्कणं-परतः करणं, यत् पुरतो ढौक्यते तत्प्रामृतं, ततः प्राभृतमिव प्राभृतं साधुदेयं, ततः प्राभृतमेव प्राभृति- प्राभृतिककेत्यन्वर्थः, तत्र बादरप्राभृतिकाविषयमाह-इह समयभाषया कब्बट्ठी-लघ्वी दारिका कथ्यते, तस्या उपलक्षणत्वात् पुत्रादेव भेदाः । विवाहस्यावष्वष्कणमुत्वष्कणं वा भवति, समवसरणे-साधुविषये साधुनामागमनं ज्ञात्वा कोऽप्येवं करोति, प्रतिष्ठितलग्नापूर्व पश्चाद्वा साधूनां मोदकादिप्रतिलाभनार्थमित्यर्थः ॥ २८५ ॥ अथापसर्पणरूपां सूक्ष्मप्राभृतिका गाथाद्वयेनाहकन्तामि ताव पेलं तो ते देहामि पुत्त! मा रोव। तं जइ सुणेइ साहू न गच्छए तत्थ आरंभो॥भा २६ न अन्न उद्विया वातुब्भवि देमित्ति किंपिपरिहरति। किह दाणि न उढिहिसी ? साहुपभावेण लब्भामो
काचित कर्त्तयन्ती भोजनं याचमानं बालकं वदति, तावदिदं पेलु-रूतपूणिकां, कृणन्मीति 'कुदुपवेष्टने ' इत्यस्य रौधादिकस्य प्रयोगः, ततः-पश्चात्ते-तुभ्यं दास्यामीति मा रोदीः, अत्रान्तरे यद्यागतः साधुस्तच्छृणोति तर्हि तत्र गृहे न गच्छति, | तत्र मा भूत् साधुनिमित्तं आरम्भो बालकभोजन(दानतदनन्तर)हस्तक्षालनादिक इति, अथवा काचिदेवं वदति-अन्यार्थअन्यप्रयोजनोत्थिता सती तुभ्यमपि किमपि दास्यामि, इतः साधुस्तच्छ्रुत्वा गृहं परिहरति, तत्रापि प्रागिवारम्भसम्भवात् , अथ तथाभूतगृहस्थावचनानाकर्णनेऽपि साघोः समागते बालको जननीं वदति, कथमिदानी नोत्थास्यसि ?, समागतो ननु साधुस्ततोऽवश्यमुत्थातव्यम् , तथा च सति साधुप्रभावेन वयमपि लप्स्यामहे, इत्थमपि श्रुत्वा दीयमानं परिहरति ॥२६-२७॥ अथोत्सर्पणरूपा सूक्ष्मप्राभृतिकां गाथाद्वयेनाह
॥५५॥
Jain Education Inter
For Private & Personal Use Only
swww.jainelibrary.org