________________
बादरप्राभृतिकायामवप्व| कणादि।
| मा ताव झंख पुत्तय ! परिवाडीए इहेहि सो साहू। एयस्स उठ्ठिया तं दाहं सोउं विवजेइ ॥२८॥ अहवा-अंगुलियाए घेत्तुं कड्डइ कप्पट्टओ घरंजत्तो। किंति कहिए न गच्छइ पाहुडिया एस सुहुमाउ॥
काचित्पुत्रमेवं भणति-हे पुत्र ! मा तावझप-वारं २ जल्प, इह परिपाट्या साधुरागमिष्यति, ततस्तस्यार्थमुत्थिता सती तुभ्यं दास्यामि, एतदपि श्रुत्वा साधुर्वर्जयति, अथवा जननीवचने तथाविधे बालकेन श्रुते कप्पट्टओ-बालकस्तं साधुमङ्गल्या गृहीत्वा यातो निजगृहम् , ततः समाकर्षति, किमिति साधुना पृष्टे स यथावस्थितं कथयति, कथिते च तत्र न गच्छति साधुर, एषा सूक्ष्मप्राभृतिका ।।२८६-२८७॥ अथ "कब्बढिए समोसरणे" इति व्याचिख्यासुः पूर्वमवष्वष्कणवादरप्राभृतिकामाहपुत्तस्स विवाहदिणं ओसरणे अइच्छिए मुणिय सड्डी। ओसकंतोसरणे संखडिपाहेणगदवदा ॥२८॥
पुत्रस्योपलक्षणत्वात् पुत्रिकायाश्च विवाहदिनं अवसरणे-साधुसमुदाये यथाविहारक्रममतिक्रान्तेऽन्यत्र गते सत्युपदिश्यमानं श्रुत्वा अवष्वकते, अर्वागदिन पृष्ट्वा विवाहं करोति, किमथेमित्याह षष्ठीसप्तम्योरमेदात समवसरणस्य-साधुसमदायस्य सङ्खडयां प्रहेणकं-मोदकादि, द्रवं-तन्दुलधावनादि तहानार्थम् ॥ २८८ ॥ अर्थोत्सर्पणरूपां बादरप्राभृतिकामाहअप्पत्तमि य ठवियं ओसरणे होहिइत्ति उस्सकणं । तं पागडमियरं वा करेइ उज्जू अणुज्जु वा ॥
स्थापितं प्रतिष्ठितलग्न अवसरणे-साधुसमुदाये प्राप्त एव-अनागत एव भविष्यतीति, उत्वष्कणमुत्सर्पणं करोति साधुसमागमनकाल एव करोतीत्यर्थः, तां द्विधाऽपि प्राभृतिकां ऋजुः प्रकटं करोति, अनृजुरितरं-प्रच्छन्नमित्यर्थः ॥ २८९ ।।
Jain Education
For Private & Personel Use Only
www.jainelibrary.org