SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ५ स्थापना दोपः तद्भेदाश्च। सटाणपरट्ठाणे दुविहं ठवियं तु होई नायव्वं । खीराइ परंपरए हत्थगय घरंतरं जाव ॥ २७७ ॥ साधुनिमित्तं स्थापितं द्विधा ज्ञातव्यं भवति, स्वस्थाने परस्थाने चेति, एकैकं पुनर्द्विधा-अनन्तरं परम्परं च, तत्र घृताघनन्तरं, क्षीरादि परं, क्षीराद्दधिनवनीतादि परम्परता, हस्तगतभिक्षायां यावद्गृहान्तरं स्थापना गृहत्रयोपयोगसम्मवात्तल गृहान्तरमित्यर्थः, एतेनान्वर्थोऽपि कथित एव ॥ २७७ ।। एनामेव गाथां भाष्यकृद् व्याख्यानयति, अथ स्वस्थानमाहचुल्ली अवचुल्लो वा ठाणसठाणं तु भायणं पिढरे । सटाणटाणमि य भायणठाणे य चउभंगा ॥भा०२५ स्थानं द्विधा-स्वस्थानस्थानं भाजनस्थानं चेति, तत्र चुल्ली प्रतीता, अथ अवचुल्लोऽति उल्हक (अवचुल्हकः) इत्यर्थः, स्वस्थानस्थानं स्यात, भाजनस्थानं पिठरं-स्थाली, एतेषु स्थितमशनादि स्थापनेति, तत्र स्वस्थानस्थाने भाजनस्थाने चत्वारो भङ्गा भवन्ति, तथाहि-चुल्ल्यां स्थापितं पिठरे च १, तथा चुल्ल्यां स्थापितं न पिठरे २, न चुल्ल्यां किन्तु पिठरे ३, न चुल्ल्यां नापि पिठरे ४, छब्बकादावन्यत्र स्थापितत्वात् ४ ॥ २५ ॥ अथ परस्थानमाहछब्बगवारगमाई होड परट्राणमो वऽणेगविहं। सटाणे पिढरे छब्बगे य एमेव दरेय ॥ २७॥ छब्बकवारकादिकमनेकविधं परस्थानं भवति, तत्र छब्बकं-पटलिकादिरूपं वारको-लघुर्घटः, आदिशब्दाल्पाकभाजनवर्जशेषभाजनपरिग्रहः, अत्रापि स्वस्थानपरस्थानापेक्षया चतुर्भङ्गी, तद्यथा-स्वस्थाने स्वस्थाने, स्वस्थाने परस्थाने, परस्थाने स्वस्थाने, परस्थाने परस्थाने, एतदेवाह-सट्ठाणे त्ति, 'सहाणे पिढरे छब्बगे य' इत्यनेन भङ्गद्वयं सूचितम्, तथाहि Jain Education For Private Personal use only www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy