SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ क्षमारत्नीयावचूर्युपेता श्री पिण्डनियुक्तिः। ॥३९॥ केई भणति पहिए उट्ठाणे मंसपेसिवोसिरणं । संभारिय परिवेसण वारेइ सुओ करे घेत्तुं ॥ १९३॥ आधा (दृ० १२) च(व)क्रपुर नगरं, तत्रोग्रतेजाः पदातिः, भार्या रुक्मिणी, अन्यदा चोग्रतेजसो ज्येष्ठभ्राता सोदासाभि-INI कर्मणि धानः कुतोऽपि ग्रामादागतः प्राघूर्णकत्वेन, उग्रतेजसा मांसं क्रीत्वानीय भार्याय समर्पितम् , तस्याश्च गृहकार्यसक्ता- बान्तानायास्तन्मांसं मार्जारेण भक्षितं, रुक्मिणी चिन्तयामास, किं करोमि ? अत्रान्तरे कापि मृतस्य कार्पटिकस्य शुना मांसं दाने उग्र. भक्षयित्वा तद्गृहप्राङ्गणे दृष्टौ वातसङ्क्षोभादिवशादुद्वमितं, भोजनवेला समागतेति रुक्मिण्या तदेवाददे, जलेन प्रक्षाल्य तेजससंस्कृतं, समागतौ सोदासोग्रतेजसावुपविष्टौ भोजनार्थ परिवेषितं तन्मांसं, ततो गन्धविशेषेणोग्रतेजसा ज्ञातं, यथा-वान्तमेत- | उदा०। दिति, ततः साक्षेप भार्या पृष्टा, सा च कम्पमाना यथावस्थितं कथयामास, ततस्तन्मांसं परित्यज्य तां निर्भत्स्यान्यन्मांसं पाचितम् । प्रथमगाथाक्षरार्थस्त्वयम्-मार्जारेण स्वादितमांसं यस्याः सा मार्जारखादितमांसा मांसाशिन उग्रतेजसः स्त्री-महेला अन्यन्मांसमप्राप्नुवती श्ववान्तं कुणपं-मांसं गृहीतवती, तच्च वेसवारेण वर्णादिभिरन्यदिवोत्पादितमपि किं भवति भोज्यमपि तु नैव, एवमाधाकपि । केचित्पुनरेवमाहु:-तस्या रुक्मिण्या गृहे कोऽप्यतीसारेण पीडितो दुष्प्रमनामा कार्पटिका, किश्चिद्विविक्तं स्थानं याचि[ता स्थितवान् , स चातीसारेण मांसखण्डानि व्युत्सृजति, मार्जारहूते मांसे तान्येव खण्डानि सजितानि, तच्च मृतसपत्नीपुत्रेणोग्रतेजसो जातेन गुणमित्रेण ददृशे, न च तदानीं भयात् किमपि कथितम् , भोजनावसरे द्वावपि पितृपितृव्यौ तेन करे कृत्वा निवारितो, प्रोक्तश्च मांसवृत्तान्तः, तत उग्रतेजसा रुक्मिणी निर्मत्सिता, त्यक्तं तन्मांसम् , द्वितीयगाथार्थस्त्वयं-केचिद्भणन्ति पथिके पथिकस्य उद्घाणे-अतीसारोत्थाने मांसपेशी For Private & Personal Use Only Jan Education inte Howjainelibrary.org.
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy