________________
आधाकमौदनपरीहारि
साधुकथानकम्।
येषामर्थाय गृहे २ शाल्योदनो निरपादि, अन्यो भाषते-साधुसम्बन्धी शाल्योदनो मह्यं जनन्या ददे, दात्री वा क्वचिदेवं भाषते-दत्तः परकीयः शाल्योदनः सम्प्रत्यात्मीयं किमपि ददामि, गृहनायकोऽपि कापि ते-दत्तः शाल्योदनः परकीय: सम्प्रत्यात्मीयं किमपि देहि, चालकोऽपि कापि कोऽप्यनभिज्ञो जननी ब्रते मम साधुसम्बन्धिनं शाल्योदनं देहीति, अन्यस्त्वीपद्दरिद्रः सहपे भाषते-अहो 'थके थकावडिय'मस्माकं सम्पन्न, इह यत अवसरे अवसरानुरूपमापतति तत् 'थके थकावडिय' | मित्युच्यते, ततः स एवमाह-येनामक्ते-भक्ताभावेऽस्माकं शालिभक्तमुदपादि । अत्रैवार्थे स लौकिकं दृष्टान्तमुदाहरति-
(१०१०) सूरग्रामे यशोधराभिधाना काचिदामीरी, तस्या योगराजो नाम भर्ता, वत्सराजो नाम देवरः, तस्य भार्या योधनी, अन्यदा दैववशात् योधनीयोगराजौ समकालमेव मृतौ, ततो यशोधरा देवरं बूते, तब भार्याऽहं भवामीति, देवरोऽपि मम भार्या न विद्यते इति विचिन्त्य प्रतिपन्नवान, ततः सा चिन्तयामास, अहोऽवसरेऽवसरापतितमस्माकमजायत, यस्मिन्नेवावसरे मत्पतिर्मृतस्तदैव देवरस्यापि भार्या मृतेति, ततोऽहं देवरेण भार्यात्वेन प्रतिपन्ना, अन्यथा न प्रतिपघेत । तथा वापि बालको जननीमाचष्टे-माता! शालितन्दुलोदकमपि साधुभ्यो देहि, अन्यस्त्वाह-शालिकाञ्जिक, तत एवमादीनि बालादिजनजल्पितानि श्रत्वा किमेतदिति पृच्छन्ति, पृष्टेऽपि च ते ऋजवो यथावत्कथितवन्तो यथा युष्माकमथायेदं कृतमिति, ये तु मायाविना श्रावकेण तथाप्रज्ञापिताः, ते न कथयन्ति, केवलं परस्परं निरीक्षन्ते, तदेवमाधाकर्मेति परिमाव्य तानि सर्वाण्यपि गृहाणि परिहत्यान्येषु मिक्षार्थमटन्ति स्म, ये च तत्र निर्वहन्ति स्म न ते प्रत्यासनग्रामे भिवार्थमगच्छन् , एवमन्यत्राप्याधाकर्म सम्भवति, तच्च बालादिजल्पितैरवगम्य कथानकोक्तसाधुभिरिख वजेनीयम्, सूत्रे
Jain Education
For Private & Personal Use Only
www.jainelibrary.org