SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ क्षमारत्नीयावचूर्युपेता मौदन श्री. साधु पिण्डनियुक्तिः। ॥३४॥ रमणीया प्राप्यते, स्वाध्यायोऽपि निर्विघ्नं जायते, परं शाल्योदनो न प्राप्यते इति केऽपि सूरयस्तत्रादरेण न तिष्ठन्ति । आधाकअन्यदा तत्रासने भद्रिलाभिधाने ग्रामे केऽपि सूरयः समाजग्मुः, तैश्च सङ्कलग्रामे क्षेत्रप्रत्युपेक्षणाय साधवः प्रेषिताः, साधवोऽपि तत्रागत्य यथाऽऽगमं जिनदत्तसमीपे वसतिमयाचिषत, जिनदत्तेनापि हर्षाद्वसतिर्दत्ता, साधवश्च तत्र स्थिता, परीहारियथाऽऽगमं भिक्षाप्रवेशनेन बहिर्भूमौ स्थण्डिलनिरीक्षणेन सर्वमपि ग्राम प्रेक्षितवन्त इति, जिनदत्तोऽपि वसतावागत्य महत्तरं साधु वन्दित्वाऽपृच्छत्-रुचितमिदं क्षेत्रं ?, सूरयोऽत्र पादमवधारयिष्यन्ति ? साधुरवोचत्-वर्तमानेन योगेन, कथानकम्। ततो ज्ञातं जिनदत्तेन न रुचितमिति, श्राद्धश्चिन्तयामास च यदत्र साधवः समागच्छन्ति परं न तिष्ठन्ति तन्न ज्ञायते किमत्र कारणमिति , ततः कारणपरिज्ञानाय कमपि अजु साधुं ज्ञात्वा पप्रच्छ, स च यथावस्थितमुक्तवान् , यथाऽत्र सर्वेऽपि गुणा विद्यन्ते, योग्यमिदं च क्षेत्रं, केवलमत्राचार्यप्रायोग्यः शाल्योदनो न प्राप्यते इति नावस्थीयते । तदेवं कारणं परिज्ञाय जिनदत्तेन परस्माद् ग्रामात् शालिबीजमानीय निजग्रामक्षेत्रभूमिषु वापितं, ततः सम्पन्नो भूयान् शालिः, अन्यदा च यथा विहारक्रमं ते चान्ये वा साधवः समाययुः श्रावकश्चिन्तयामास, यथैतेभ्यो मया शाल्योदनो दातव्यो येन सूरीणामिदं योग्य क्षेत्रमिति परिमाव्य साधवोऽमी सूरीनानयन्ति, तत्र यदि निजगृह एव दास्यामि, तदाऽन्येषु गृहेषु कोद्रवादिलम-N मानानामेतेषामाषाकर्मशङ्कोत्पत्स्यते तस्मात् सर्वेष्वपि गृहेषु स्वजनसम्बन्धिषु शालिं प्रेषयामीति, तथैव कृतं स्वजनाथोक्तवान् , यथा स्वयमप्यमुं शालि पक्त्वा भुञ्जत, साधुम्योऽपि च ददथ, एष च वृत्तान्तः सर्वेऽपि बालादीमिरवजग्मे, साधवश्व भिक्षार्थमटन्तो यथागममेषणासमितिसमिता बालादीनामुक्तानि शृण्वन्ति, तत्र कोऽपि बालको वक्ति, एते ते साधवो ॥३४॥ www.jainelibrary.org Jain Education ins For Private & Personal Use Only t al
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy