________________
नवपदवृत्तिम्मू. देव.
वृ. यशो.
॥ ३३ ॥
Jain Education Int
षष्ठाष्टमादिप्रकृष्टतपः शोषितशरीरस्य
ततादिगुणोपेतस्यानवरतं सूर्याभिमुखो बाह्रातापनादिकायक्लेशमनुभवत उत्तरोत्तरशुभ परिणामवशाद्विशुध्यमानलेश्यस्य तदावरणीयक्षयोपशमेन वैक्रियवीर्यावधिज्ञानादिलब्धयः समु त्पन्नाः, ततोऽसौ लोकविरमायननिमित्तं सर्वमेवं विधाति, एवमाकर्ण्य गौतमो विनयविरचिताञ्जलिपुटः पुनर्व्यजिज्ञपत्स्वामिन्! अयमेवंलब्धिसम्पन्नोऽम्मडपरिव्राजकः कदा सर्वविरति परिणाममनुभविष्यति ?, कथं वा कालं करिष्यति ?, कालं कृत्वा क्वोत्पत्स्यते ?, कदा वाऽशेषकर्म्मक्षयं विधाय परमगतिं प्राप्स्यति ?, इत्यादि पृष्टः स्वामी पुनरवोचत् गौतम ! न तावदस्मिन् भवेऽसौ सर्वविरतिमवाप्स्यति, नापि देशविरतिपरिणामात् प्रतिपतिष्यति, केवलं पूर्ववर्णित गुणकला पोपेतोऽनेक लोकोपकारं कुर्वाणो बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयिष्यति, ततश्चावधिज्ञानेन विज्ञातासन्नमरणो मासिकसंलेखनया षष्टिं भक्तान्यनशनेनावच्छिद्यालोचितप्रतिक्रान्तः समाधिना कालं करिष्यति, कालं | कृत्वा ब्रह्मलोककल्पे देवत्वेनोत्पत्स्यते, तत्र च दश सागरोपमाणि देवभवप्रत्ययं सुखमनुभूय स्वायुष्कक्षयेण च्युत्वा | महाविदेहे समुत्पत्स्यते, गर्भस्थे च तस्मिन् पित्रोर्धर्मे दृढा प्रतिज्ञेतिकृत्वा निर्वर्त्तितेषु जातकर्मव्यवहारेषु संप्राप्ते द्वादशे दिवसे स्ववंशज्येष्ठा यथार्थं दृढप्रतिज्ञ इति नाम करिष्यन्ति, ततश्च शुक्लपक्षक्षपाकर इव प्रतिदिवसं प्रव
For Private & Personal Use Only
यतनायां अम्मडशि-'
व्यज्ञातं
॥ ३३ ॥
Www.jainelibrary.org