________________
Jain Educatio
मानतीर्थाधिपतिं वर्द्धमानस्वामिनं धर्माचार्यमम्मडपरिव्राजकं चाभिवन्द्य पूर्वप्रत्याख्यातयावज्जीविकस्थूलप्राणातिपातमृषावादादत्तादान सर्वमैथुनपरिग्रहान् संस्मृत्येदानीमपि वयं भूयः श्रमणस्य भगवतो महावीरस्यान्तिके सर्वं | प्राणातिपातं प्रत्याचक्ष्महे इत्यादिक्रमेण सर्वत्रतान्युच्चार्याष्टादशपापस्थानविमुक्ताशया यावज्जीविकं चतुर्विधाहा र परिहारमाधाय शरीरमपि चरमोच्छ्रासनिःश्वासेषु व्युत्सृष्टमस्माभिरिति चेतसि कृत्वा पादपोपगमनं कृतवन्तः, ततश्च | कतिचिदिवसान्यनशनेन स्थित्वाऽऽलोचितप्रतिक्रान्ताः समाधिना कालं कृत्वा पञ्चमे ब्रह्मलोककल्पे दशसागरोपमस्थितयो देवा उत्पन्नाः । एवं च ते लघुलाभमदत्तादानं परिहत्य गुरुलाभं मरणं चाङ्गीकृत्य मिथ्यात्वयतनामासेवितवन्त इति प्रकृतमवसितं प्रसङ्गागतं त्वम्मडपरिव्राजक कथानकानुसन्धानं किञ्चित्कियते - तत्रासौ परिवाजकपतिर्विविधकौतुक - वशीकृताशेषलोकः काम्पिल्यपुरे प्रतिवसति स्म, अन्यदा च तद्गुणानुरागविरचितमनोरञ्जनात् जनात्तद्गुणान् भगवान् गौतम स्वामी समाकर्ण्य निःसंशयप्रतीति कृते भगवन्तं महावीरस्वामिनं विधिवत् पच्छ - यथा भगवन् ! अयं लोको | यद्व्यपदिशति - एवमम्मडपरिव्राजकः काम्पिल्यपुरे गृहशतेष्वाहारमाहारयति, एवं वसतिमुपैतत्यादि, तत्किं तथा ?, | भगवानवादीत् तथा, कथमेतदेवमिति पृष्टः पुनर्भगवान् ब्रूते स्म गौतम ! अम्मडपरिव्राजकस्य प्रकृतिभद्रताविनी -
For Private & Personal Use Only
www.jainelibrary.org