SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्तिम्मू. देव. वृ. यशो. ।। ३२ ।। ल्यपुर निवासी परमश्रावको बभूव, तदन्तेवासिनश्च कदाचिदतिप्रवृद्धप्रबलतापदिव से ज्येष्ठमासि प्रचण्ड चण्डरश्मि करनिक| रसन्तापतापिते सकलजीवलोके विहारार्थं काम्पिल्यपुरात्पुरिमतालनगरं प्रति प्रस्थिताः, गच्छन्तश्च तावद्गता यावदेका | महाटवी, या च महानरेन्द्र सेने वेतस्ततो निरीक्ष्यमाणपुण्डरीकशतसंकुला विविधहरिपत्ररथाविराजिता च रामरावणसङ्ग्रामभूमिरिव संचरन्निशाचरबिभीषणा नीलनलालङ्कृता च विजिगीषुनृपतिविजययात्रेव विसारिवाहिनीकाशा दक्षा च क्वचिदनव |लोक्यमानमानवाऽपि बहुविधविटपिहिता शिवानुगतापि नापर्णा, तस्यां च निर्जनायां कियन्तमपि भूभागमतिक्रान्तानाममीषां पूर्वगृहीतमुदकं निष्ठितं, ततः पिपासयाऽभिभूयमाना अन्यमुदकदातारमपश्यन्तस्ते सर्वेऽप्येवमालोचितवन्तः, यथा निष्ठितमिदानीं तावदस्माकं पुरा संगृहीतं जलं, न च सुनिपुणं निरूपयद्भिरपि कश्चिदुदकदाताऽन्यो निरीक्षितः, स्वयं ग्रहीतुं च तन्न कल्पते, तदिदानीं मरणमेव नः श्रेयः, यत उक्तम्- " वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्रवलितस्य जीवितम् ॥ १ ॥ " एवं च सर्वसंमत पर्यालोचनानन्तरं त्रिदण्डकुण्डिकाद्युपकरणजातमेकान्ते व्युत्सृज्य महानद्या गङ्गायाः पुलिनपरिसरे वालुकासंस्तारकान् संस्तीर्थ तदारूढाः पूर्वाभिमुखाः संपर्यङ्कनिषण्णललाटतटघटिताञ्जलिपुटा भगवतोऽर्हतः शक्रस्तवेनाभिष्ट्रय विशेषेण वर्त्त Jain Education For Private & Personal Use Only क मिथ्यात्वयतनायां अम्मड शिष्योदा. ।। ३२ ।। www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy