SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Jain Education In | र्द्धमानो यावत्सातिरेकाष्टवर्षो भविष्यति तावत्प्रशस्तेषु तिथिकरणयोग नक्षत्र दिवसमुहूर्त्तेषु कलाचार्यस्य तत्पितरस्तमुपनेष्यंति, सोऽप्यचिरेणैव कालेन सकलकलाकलाप कुशलः संपत्स्यते, केवलं नवयौवने वर्त्तमानोऽपि समस्त भोगाङ्ग | प्राप्तावपि सांसारिक सुखस्य निःस्पृहो भविष्यति, अन्यदा तथाविधाचार्यसमीपे समाकर्ण्य धर्मदेशनां विज्ञाय संसा. रासारस्वभावतां परिभाव्यैकान्तिकात्यन्तिकपरम सुखरूपतामपवर्गस्य निर्विण्णो जाति जरामरणादिप्रवर्त्तनायास्तदुच्छेददक्षां सर्वसावद्यनिवृत्तिरूपां भगवदर्हदुपदिष्टां दीक्षां महाविभूत्या प्रपत्स्यते, ततश्चाशेषातिचाररहितां काञ्चित्कालं परिपाल्योत्तरोत्तरपरिणामविशुद्धिवशात्समारुह्य क्षपकश्रेणीं विधाय घातिकर्मक्षयमुत्पाद्य सकललोकालो| कप्रकाशनप्रत्यलं केवलज्ञानमनेकभव्यलोकोपकारं कुर्वाणो विहृत्य बहूनि वर्षाणि केवलिपर्यायेण संलिख्य मासि कसंलेखनयाऽऽत्मानं षष्टिं भक्तान्यनशनेनावच्छिद्यान्तर्मुहूर्त्तावशेषायुष्कोऽनुभूय पञ्च-हस्वाक्षरोच्चारणतुल्यकालां योगनिरोधावस्थां परित्यज्य भवोपग्राहि कर्मचतुष्केण सह शरीरमविग्रहगत्या समयेनैकेन सेत्स्यति ॥ व्याख्यातं षष्ठ द्वारेण सोदाहरणेन मिध्यात्वम्, अधुना सप्तमेनातिचारद्वारेणाभिधीयते For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy