SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 श्रुत्वा तद्वचनं साधोः, परिभाव्य स्वचेतसि । स्वदोषं मन्यमानोऽसौ, तूष्णीभावमुपेयिवान् ॥ २० ॥ ततः पुत्रादयस्तस्य, | कौतुकाकुलमानसाः । साधुं वदन्ति वः पाठादजः किं मौनमाश्रितः १ ॥ २१ ॥ साधुनाऽवादि भो भद्राः !, सैष भट्टस्त्रिविक्रमः । यत्प्रवर्त्तितयज्ञेऽसौ, हन्तुं युष्माभिरिष्यते ॥ २२ ॥ तैरूचे प्रत्ययः कोऽत्र?, सोऽब्रवीत् मुच्यताम सौ | सम्पा- | दयति येनायं प्रतीतिं स्वयमेव वः ॥ २३ ॥ तथाकृते ततस्तैस्तु, यदनेन धृतं पुरा। । निधानं स्वसुतैः सार्द्धं गत्वा | तदेशमाश्रितः ॥ २४ ॥ जातिस्मरणतो ज्ञात्वा, गेहमध्ये व्यवस्थितम् । तत्तेषां दर्शयामास, खुराग्रैर्विलिखन् महीम् ॥ २५ ॥ संजातप्रत्ययास्ते च गृहीत्वा तं समाययुः । उद्यानवर्तिनः साधोः सकाशं शान्तचेतसः ॥ २६ ॥ प्रणि|पत्य ततः प्रोचुर्भगवन्नेष नः पिता । आसीध्धर्मपरो नित्यं, वेदोदितविधानतः ॥ ६७ ॥ तथाहि - तडागः खानितोऽनेन, यागाश्च विविधाः कृताः । तदयं किमजो जातोऽकृतकर्मा यथा नरः १ ॥ २८ ॥ इत्येवं तैरसौ पृष्टः, प्रोवाच मुनिपुङ्गवः । अज्ञानफलमेतेन, दुरन्तमुपभुज्यते ॥ २९ ॥ यदेव कुरुते जन्तुः किञ्चित्कर्म शुभाशुभम् । तस्यैव फलमाप्रोति, नाकृतं तूपतिष्ठते ॥ ३० ॥ तथाहि - अधर्मो धर्मबुद्धया यः, पूर्वमज्ञानतः कृतः । तस्यार्त्तध्यानयुक्तस्य, फलमेतदुप| स्थितम् ॥ ३१ ॥ गम्यागम्यं न जानाति, कृत्याकृत्यं न मन्यते । हिताहितं च नो वेत्ति, यस्मादज्ञानमोहितः ॥ ३२ ॥ उक्तञ्च For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy