SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिभ्मू. देव. वृ. यशो. ।। २६ ।। Jain Education | जनपटुस्थिरः । आन्वीक्षिक्यादिविद्यासु, परं प्रावीण्यमागतः ॥ ७ ॥ कुलक्रमसमायातवेदधर्मोपदेशकः । त्रिवि क्रमाभिधो भट्टः, आसीत्तस्य पुरोहितः॥८॥ युग्मम् ॥ तेनान्यदा स्ववित्तस्य, साफल्यमभिवाञ्छता । नृपत्यनुज्ञयाऽकारि, धर्मबुद्धया सरोवरम् ॥ ९ ॥ सत्त्वाश्रयमतिस्वच्छं, गम्भीरं लोकनन्दनम् । सत्पुरुषमनस्तुल्यं, जलं यत्रावभासते ॥ १० ॥ पाल्यां देवकुलं तस्य, कारितं चातिसुन्दरम् । तस्यैव सरलो (सो) लक्ष्म्या, विनोदायेव मन्दिरम् ॥ ११ ॥ परिवेषेण चारामो, रम्यस्तस्य विधापितः । बकुलाशोकपुन्नागनागचम्पकमण्डितः ॥ १२ ॥ प्रतिवर्षे च तेनात्र मोहान्धेन प्रवर्त्तितः । स यज्ञो यत्र बस्तानां विनाशः प्रविधीयते ॥ १३ ॥ एवं व्रजति काले च, तत्र मूर्छापरायणः । अन्यदाऽऽर्त्तवशो मृत्या, छाग एवोदपादि सः ॥ १४ ॥ भवितव्यनियोगेन तत्पुत्रैरेव | सोऽन्यदा । स्वीकृतो यागकर्मार्थं, मूल्यदानात्कुतोऽप्यसौ ॥ १५ ॥ नीतः स्वमन्दिरं तत्र, बान्धवादीन् प्रपश्यतः । जातिस्मरणमुत्पन्नं, तस्येहापोहवर्त्तिनः ॥ १६ ॥ सरोऽभिमुखमन्येद्युर्नीयमानः क्रतूत्सवे । बिब्बीतिकर्त्तुमारब्धो, न याति पदमप्यसौ ॥ १७ ॥ अत्रान्तरे तपख्येको, ज्ञानातिशयसंयुतः । तं रटन्तं समालोक्य, कारुण्यादिदमब्रवीत् ॥ १८ ॥ स्वयं वृक्षान् समारोप्य, खातयित्वा सरः स्वयम् । स्वयमुपयाचिताप्तो ( ? ), बिब्बीति किमु वाससे ? ॥ १९ ॥ For Private & Personal Use Only मिथ्यात्वदोषे त्रिवि कमकथा ॥ २६ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy