________________
रिणामस्य प्रतिपादनार्थो दृष्टान्तः, वाशब्दस्तदन्यैवंविधदृष्टान्तसूचनाओं द्रष्टव्यः । ननु च सम्यक्त्वादिदोषद्वारेषु||| तद्विपक्षे दोषानभिधास्यते, इह तु किमर्थ स्वरूप एवोक्तः ?, सत्यं, सम्यक्त्वादीनां स्वरूपतो गुणरूपत्वात
तद्विपक्षे दोषाभिधानं, मिथ्यात्वस्य तु तद्विपर्ययत्वात्स्वरूपमेवेति न दोषः, अत एव सम्यक्त्वदोषद्वारे तद्विपक्ष alमिथ्यात्वे दोषं " सम्मत्तपरिभट्ठो जीवो दुक्खाण भायणं होइ " इत्यादिना वक्ष्यति, कथितः सप्रपञ्चो गाथाऽक्ष
रार्थः, भावार्थस्तु कथानकाभ्यामवसेयः, तत्र च नन्दमणिकारकथानकं सम्यक्त्वदोषद्वारे वक्ष्यामः, त्रिविक्रमभट्टकथानकं त्वभिधीयतेa असङ्ख्यवलयाकारद्वीपसागरवेष्टितः । राजतस्थालसंस्थानो, लक्षयोजनविस्तृतः॥१॥ अनन्तवर्षस्थितिकः,
सप्तवर्षाश्रयोऽपि सन् । मेरुमण्डितमध्योऽपि, नमेरुसहितः कचित् ॥ २ ॥ हिमवत्प्रमुखैर्युक्तः, षड़िवर्षधराद्रिभिः । गङ्गादिसन्नदीरम्यो, जम्बूद्वीपोऽस्ति विश्रुतः ॥ ३॥ मेरोर्दक्षिणतस्तत्र, षट्खण्डप्रविराजितम् । विद्यते भारतक्षेत्रं, शशाङ्कशकलाकृति ॥ ४ ॥विहारभवनारामवापीकूपादिशोभितम् । तस्य मन्यमखण्डेऽभूत्, पुरं क्षितिप्रतिष्ठितम् ॥ ५॥ प्रशास्ति तत्तदा नीत्या, वैरिवारणकेसरी । प्रतापाक्रान्तभूपीठो, जितशत्रुर्महीपतिः ॥ ६॥ शान्तिकर्माभिचारादिप्रयो
Jain Education Inter
For Private & Personel Use Only
H
rjainelibrary.org