________________
नवपदवृत्ति-मू.देव. वृ. यशो.
मिथ्यात्वदोषाः गा६
मिच्छत्तपरिणओ खल, नारयतिरिएसु भमइ इह जीवो ।
जह नंदो मणियारो तिविक्कमो जह य भट्टो वा ॥६॥ मिथ्यात्वात्मना परिणतो मिथ्यात्वपरिणतः, खलुशब्दोऽवधारणार्थः, मिथ्यात्वपरिणत एव, किं ?-नारकतिर्यक्षु || भ्रमति इह जीवः, नारकाश्च तिर्यञ्चश्च नारकतिर्यञ्चस्तेषु ' भ्रमति । पर्यटति · इह , लोके 'जीवः । आत्मा, न ।। सम्यक्त्वपरिणतोऽपि, तस्य तदायुर्वन्धानुपपत्तेः, उक्तञ्च-" सम्मबिट्ठी जीवो विमाणवजं न बंधई आउं । जइविन । सम्मत्तजढो, अहव न बद्धाउओ पुचि ॥१॥" ति, धर्मदासगणिनाऽप्युक्तम्-" सम्मत्तंमि उ लडे, ठइयाई | नरयतिरियदाराई । दिव्वाणि माणुसाणि य मुक्खसुहाई सहीणाई ॥१॥ " ति, मिथ्यात्वपरिणत इत्यनेन च । विशेषणेनैकान्ताविचलितकस्वरूपस्यात्मनो निषेधमाह, तस्य तथापरिणामासंभवात्, एकस्वरूपत्वे चात्मनो बन्धः । मोक्षाद्यभावात् । नारकतिर्यक्ष भ्रमतीत्यनेनापि निष्क्रियसर्वगतात्मवादिमतं निराचष्टे, तथाभूतस्य नारकादिभ्रमणानुपपत्ते स्वर्गनारकादिसाधकबाधकानुष्ठानवैयर्थ्याच्च, अत्र च बहु वाच्यं तत्तु ग्रन्थगौरवभयात्परिहतमिति । प्रक्रान्तार्थसमर्थ-|||॥२५॥ नार्थमेव दृष्टान्तद्वयमाह-यथा नन्दो मणिकारः त्रिविक्रमो यथा भट्टोभ्रान्तवान्, तत्राद्यः सादेर्द्वितीयस्त्वनादेमिथ्यात्वप
For Private Personal Use Only
arjainelibrary.org
Jain Education International