________________
Jain Education Inter
विषयाः तदासक्तानां ध्रुवो नरकपातो दुर्लभं पुनर्मोक्षबीजं विशेषतो विरतिरत्नं न तत्त्यागाद्दुस्तरनरकपातहेतुकक| तिपयदिन भाविराज्याश्रयणमाह्लादयति चित्तं विदुषां तत्परित्यज कदाशयं, स्मर प्राग्भवानुभूतदुःखानि, पिब जिनवचनामृतरसं, संचरख तदुक्तमार्गे, सफलीकुरु मनुजजन्मेति, स प्राह - भगवन् ! उपनतसुखत्यागेनादृष्टसुखाभिलाषकरणमज्ञतालक्षणं, तन्मैवमादिश, कुरु मत्समीहितं, ततः पुनरुक्तोऽपि यदा न प्रतिबुध्यते तदा चिन्तितं मुनिना - हुं ज्ञातं यत्पूर्वभवे सनत्कुमारचक्रवर्त्तिस्त्रीरत्नालक संस्पर्शसुखानुभव जाताभिलाषातिरेकेण मन्निवार्यमाणेनापि कृतं तत्प्रार्थ्यं संभूतिना सता निदानं तदिदं विजृम्भते, अतः कालदृष्टवदसाध्योऽयं जिनवचनमन्त्राणामिति मत्वा मुनिरन्यत्र विचचार, समयान्तरे च क्षपकश्रेणिक्रमेणोत्पाटय विमलकेवलं मोक्षमनुप्राप्तः । राज्ञस्तु चक्रवर्त्ति सुखमनुभवतोऽतीतः कश्चित्कालः, अन्यदैकेन द्विजातिनोक्तोऽसौ - भो नृपेश ! ममेदृशी वाञ्छोत्पन्ना यदि चक्रवर्त्तिभोजनं भुञ्जे, राज्ञोक्तं - भो द्विज ! न मामकमन्नं त्वं भोक्तुं क्षमः, यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति, ततो द्विजेनोक्तं- धिगस्तु ते राज्यलक्ष्मी माहात्म्यं, यदन्नमात्रदानेऽप्यालोचयसि ततो राज्ञाऽसूययाऽनुज्ञातं, | भोजितश्वासौ स्वोचिताहारेण भार्यापुत्रस्नुषादुहितृपौत्रादिबान्धववृन्दान्वितः गतः स्वगृहम् आगतायां निशीथिन्या
For Private & Personal Use Only
www.jainelibrary.org