________________
रणेन रूक्षत्वान्मुखयन्त्रं वातादिना मा क्षोभीदिति हेतोर्गण्डूषधारणं, ननु मरणस्याङ्गीकृतत्वान्मुखक्षोभेऽपि को दोषः?, उच्यते, मुखयन्त्रक्षोभे नमस्कारोचारणासमर्थोऽसौ भवेदित्यादिविधिय॒ह्यते, तत्पूर्व-संलेखनादिपूर्व 'वियडण : त्ति विकटनाम्--आलोचनां, दद्यादिति शेषः, ' उच्चारणं तह वयाणं ' ति तथोच्चारण-संशब्दनं व्रतानां-प्राणातिपातविरमणादीनां, कुर्यादित्यध्याहारः, ततस्त्रिविधं चतुर्विधं वाऽऽहारं व्युत्सृजेत् सर्वमिति, तत्राशनखाद्यस्वाद्यभेदेन । त्रिविधं पानकसमन्विताशनादिभेदात्तु चतुर्विधं वा ' व्युत्सृजेत् । परित्यजेत् 'सर्व' निरवशेष, अत्र चायं विधिःअपराह्नसमये तावदनशनप्रतिपत्तिः कार्या, यदि च कालसहता न भवति तदा पूर्वाह्लादिकालेऽपि, तच्च जिनायतने || साधुसमीपे स्वीकर्त्तव्यं श्रावकेण, संहननसहायाद्यभावे च स्वगृहेऽपि, तम्मिश्च कृते भावनाराधनापाठनादिनमस्का-1 रादिपरेण निर्यापकादिसामग्रीसमन्वितेन स्थेयमिति गाथार्थः ॥ दोषद्वारं त्वेवम्
बालमरणेहि जीवो सनियाणो दुक्खसागरमपारं ।
पावइ जह संभूई, पंडरअजा व दिटुंतो ॥ १३२ ॥ बालमरणैः । जलज्वलनप्रवेशादिभिः 'जीवः । प्राणी 'सनिदानः' निदानसम्बन्धसहितः दुःखम्
Jan Education Inter
For Private
Personal use only