________________
Jain Education Internati
वर्त्यप्यत्र योज्यते, ननु कर्त्तव्यमित्येकवचनान्तं तत्कथं मरणानीति बहुवचनान्तेन योज्यते ?, सत्यं, प्राकृते | लिङ्गविभक्तिवचनव्यत्ययस्येष्टत्वान्न दोषः, तान्येव नामत आह- ' पायवइंगिणिमरणं भत्तपरिण्णं च ' ति तत्र 'पायवति पादपोपगमनमिङ्गिनीमरणं भक्तपरिज्ञा चेति, एतानि च प्राग्व्याख्यातान्येवेति गाथार्थः ॥ | तृतीयद्वारमधुना -
संलेहणाइ पुव्वं, वियडणमुच्चारणं तह वयाणं । तिविहं चव्विहं वा, आहारं वोसिरे सव्वं ॥ १३१ ॥
संलिख्यते - तनूक्रियते शरीरकषायादि यया सा संलेखना सा चोत्कर्षतो द्वादशसंवत्सरा विज्ञातमरणस्य | भणिता, यदुक्तम् - " चत्तारि विचित्ताई विगईनिज्जहियाई चत्तारि । संवच्छरे य दुन्नि य एगंतरियं च आयाम ॥ १ ॥ " चत्वारि वर्षाणि यावद्विचित्राणि तपांसि - उपवासषष्ठाष्टमादीनि प्रथमं करोति, अत्र च पारणके सर्वकल्पं पारयतीति सम्प्रदायः, तदग्रे चत्वारि वर्षाणि विकृतिरहितानि विचित्रतपांसि विधत्ते, पारणके विकृतिं न गृह्णातीत्यर्थः, तदुपरि संवत्सरइयमेकान्तरिताचाम्लैस्तिष्ठति,
For Private & Personal Use Only
Jainelibrary.org