________________
आदितीर्थकरस्य जातायां केवलज्ञानोत्पत्तौ भगवत्समीप एवं गृहीतव्रतः परिपालयन्निरतिचारं श्रामण्यं क्षपकश्रेणिक्रमेण विधाय घनघातिकर्मक्षयमुत्पाटितविमलकेवलज्ञानः कालक्रमेण क्षपितभवोपग्राहिकर्मचतुष्को विहाय शरीरं गतो मोक्षम् ॥ इति श्रेयांसकथानकं समाप्तम् ॥
प्रकृतहारगाथाभावार्थरत्वयं-यथा श्रेयांसेन भावनासारं पात्रदानमनुष्ठितं तथाऽन्येनाप्यनष्ठेयमिति ॥ व्याख्यातं नवभिरपि द्वारैरतिथिसंविभागवतं, तद्व्याख्यानाच्च समाप्तानि चत्वारि शिक्षापदानि, तत्समाप्तौ द्वादशापि व्रतानि भणितानि, सम्प्रति संलेखना नवभिहाराच्येति प्रथमहारेण तावदभिधीयते
जिणभवणाइसु संथार दिक्ख निज्जावयाओ अडयाला ।
पियधम्माइसमेया, चउरंगाराहओ मरणे ॥ १२९ ॥ 'जिणभवणाइसु संथार दिक्ख : त्ति जिनभवनम्-अर्हदाश्रयः आदिशब्दाज्जिनजन्मभूम्यादिग्रहस्तेषु जिनभवनादिषु संस्तीर्यते-स्वापार्थ वितन्यते इति संस्तार:-कुशकम्बल्यादिरूपस्तत्प्रधाना दीक्षा-सर्वसंयमोपादानेन चित्तशिरस्तुण्डमुण्डनं संस्तारदीक्षा, प्रत्युपेक्षणादिक्रियाकलापासमर्थस्य अन्तः सर्वसावद्यनिवृत्तिप्रतिज्ञाऽध्यवसायेन ,
Jain Education Intellell
For Private & Personel Use Only
Allww.jainelibrary.org