________________
रचरित्रं
॥३१४॥
श्रीनव०बृहः । तौ विससर्ज, स्वपुराभिमुखं व्रजन्तौ च क्रमेण प्राप्तौ शरवणासन्नदेश, लोको बभाण-सम्प्रति शरवणमध्येनापि श्रेयांसकुमा
वृत्ती । गच्छतां न कश्चिदपायो, यतस्तत्र कस्यचिन्महामुनेः केवलज्ञानमुत्पन्नं, तस्मिंश्च देवसन्निपाते तदुद्योतेन प्रतिहतं । अतिथिसंविभागे. पन्नगानां दृष्टिविषं, तच्च श्रुत्वा वज्रजङ्घश्चलितस्तेनैव पथा, ददर्श तत्रावासितौ सागरसेनमुनिसेनानगारी निजभ्रातरौ ।
प्रवरसाधुपरिवारौ, यौ च वासभवनमविकलतपोलक्ष्म्याः आश्रयः प्रसन्नतायाः स्थानं सौम्यतागुणस्य, ववन्दे च । सपरिवारो भावसार, भिक्षावेलायां च विशुद्धान्नपानादिभिः प्रतिलाभयामास स्वावासमायातौ, मध्यन्दिनावसाने च । तयोरेव महातपस्विनोर्गुणाननुचिन्तयन् अहो महानुभावावेतौ मद्भातरी वयमपि कदा विमुच्य राज्यविस्तरमेनां मनिवृत्तिमङ्गीकृत्य निःस्पृहमानसा इत्थं विहरिष्याम इति पर्यालोचयन्मुहुर्मुहुर्दत्तप्रयाणकः क्रमेण प्राप्तः स्वनगर, इतश्च । तत्तनूजेन निजनगरान्निर्गतयोः पित्रोर्दानसन्मानादिना वशीकृत्य भृत्यवर्ग प्रयुक्तस्तदागमनकाले तद्वासगृहे विषधृपः, एनं च व्यतिकरमजानानो वजजङ्घः समं श्रीमत्याऽतिक्रान्ते प्रदोषे विसृष्टपरिजनोऽनुस्मरन् साधुगुणान् । विश्रान्तः तत्र, विषधूपविह्वलितचेतनश्च तत्सहित एव प्राप्तः पञ्चत्वं, समुत्पन्नस्त्रिपल्योपमायुष्क उत्तरकुरुषु सहैव तया ॥ ३१४ ॥ मिथुनत्वेन, तदवसाने च मृत्वा सौधर्मदेवलोके देवभावेन द्वावपि जातौ पूर्वानुवेधेन, तत्रापि महती प्रीतिरासीत्
मामान
Jain Education Intello
For Private Personal Use Only
w.jainelibrary.org