SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ कथयामि तावत्प्रतीक्षस्व, मा दूरमुन्मनीभः, एतदुक्त्वा गताऽसौ श्रीमतीसमीपम्, अचकथदमुष्यास्तद्वृत्तान्तं, पश्चाद्राज्ञो । निवेद्योभयव्यतिकरं महाविभूत्या पाणिग्राहणपूर्व संघटयामास कुमारेण सममेतां, विसृष्टा चोत्कृष्टसन्मानेन पितृभ्यां, अन्यदा साई निजभा ययौ लोहार्गलनगरं, तत्र सुकृतानुभावसंपद्यमानसमीहितार्थसार्थयोस्त्रिवर्गसारं विषयसुखसंभारमनुभवतोस्तयोरतिजग्मुः कियन्तोऽपि वासराः, वैरसेनचक्री च लोकान्तिकदेवप्रतिबोधितः सांवत्सरिकमहादानपूर्व ज्येष्ठपुत्रं पुष्कलपालं राज्ये निवेश्याङ्गीकृतसर्वसङ्गविरतिः समुत्पन्नकेवलज्ञानो धर्मतीर्थं प्रवर्त्तयामास, वज्रजङ्घस्य । तु जनितनिजगुणजनमनोविस्मयः समजनि तनयः, इतश्च--कदाचित्पुष्कलपालस्य विसंवदिताः केचित्सामन्ताः, Kलततः पुष्कलपालेन वज्रजङ्घस्य दूतः प्रहितो यथा भवता श्रीमतीसमेतेन शीघ्रमागन्तव्यं तदनन्तरं सोऽपि थै दूतादवगम्य प्रचुरतरस्कन्धावारसहितः स्वपुत्रं नगरे संस्थाप्य प्रतस्थौ समं श्रीमत्या तदभिमुखं, तदन्तराले च शरवणमार्गेण गन्तव्यं, तस्मिंश्च गुणदोषविज्ञायकलोकेन निषिद्धो वज्रजङ्घो, यथाऽत्र दृष्टिविषाः सर्पाः । सन्ति, तस्मादनेन पथा न गन्तव्यं, पश्चादसौ परिरयेण तान् परिहरन् क्रमेण प्राप पुण्डरीकिणी, विज्ञाततदागमनाश्च तत्सामन्ताः प्रणता भयेन पुष्कलपालस्य, सोऽपि गृहागतयोस्तयोर्विधायोचितप्रतिपत्तिं प्रीत्या धृत्वा च कतिचिदिनानि Jain Education img For Private Personel Use Only alww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy