SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ श्रीनवाह ||धात्री रहस्ये तामवोचद-वत्से ! यदि कारणेन केनापि मूकत्वमवलम्ब्य व्यवस्थिता तदा निवेदय ममाने, मा श्रेयांसकुमावृत्ती रचरित्रं अतिथिस- कदाचिन्ममापि शक्तिर्भवति तत्सिद्धौ, अज्ञाते वस्तुनि कीदृशमुपचारं चिन्तयामि ?, तयाऽवाचि-मातः ! अस्ति । विभागे. कारणं, तथाहि-मम जातिस्मरणमुदपादि, तेन पूर्वभवकान्तो ललिताङ्ककदेवो मया स्मृतः, तं च स्मृत्वा तद्वियोग. ३१३ दहनदंदह्यमानमात्मानं निर्जीवमिव कलयामि. तेन मौनमालम्ब्य स्थिताऽस्मि, तयाऽभाणि-पुत्रि ! न मौनावस्थानेन कार्यसिद्धिः, किन्तूपायेन, तत्साधु कृतं भवत्या यदिदं मम निवेदितं, तथा करोमि संप्रति यथाsचिरेणैव तव प्रिययोगो भवति, ततोऽनया कारितो महांश्चित्रपटो, लेखितं तत्र यथा कथितं धातकीखण्डप्रभति देवलोकच्यवनावसानं सविस्तरं तच्चरितं, तदनन्तरं यः कोऽपि राजपुत्रादिस्तत्रायाति स्म तस्य दर्शयामासासौ तं पदं, अन्यदा च लोहार्गलपुरात समाजगाम केनापि प्रयोजनेन तत्र वज्रजङ्गकुमारः स चालोक्य तया श्रीमत्यम्बधाच्या प्रदर्यमानं तं चित्रपट झगिति जातजातिस्मरणो व्याजहार-नन्वहं स ललिताङ्गको यस्यैतच्चरितमालिखितं विद्यते, तत्कथय केनेदं लिखितं ?, न खलु स्वयंप्रभां देवीं विमुच्यान्योऽस्यार्थस्याभिज्ञः, तदर्शयत ममेदानीं तां ॥ ३१३ ततस्तुष्टयाऽम्बधाब्योक्तं-कुमार ! यैषा तव पितृष्वसुर्दुहिता श्रीमती सा स्वयंप्रभा तयेदमालेखितं, तद्यावदहं राज्ञः Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy