________________
विशेषशोषितशरीरा, तत एव निरन्तरस्वपितृवितीर्यमाणग्रासाच्छादनमात्रेणैव सन्तुष्टा निनाय प्रभूतकालं, अन्यदा च सकलशक्तिविकलमालोच्यात्मशरीरं विधिविहितभक्तपरित्यागा पूर्वोदितललिताङ्गकदेवेन स्वायुष्कक्षयप्रच्युतायां स्वर्गलोकात स्वकीयदेव्यां स्वयंप्रभाऽभिधानायां तत्स्थानेऽन्यां चिकीर्षुणाऽवतीर्णेन मर्त्यलोकं रात्रौ ॥ ३१२ ॥ विलोकिता सा, ततः प्रदर्श्य स्वकीयरूपं निर्नामिके ! मामङ्गीकृत्य कुरु निदानम् - अहमेतस्य देवी भवेयं, एवं
श्रीनव० बृह वृत्तौ
अतिथिसंविभागे
Jain Education Inter
भणित्वा चादर्शनीभतोऽसौ साऽपि तदर्शनात्पन्नतदभिलाषा समाधिना कालगता तमेव ध्यायन्ती समुत्पेदे | तस्मिन्नेवेशानकल्पे श्रीप्रभे विमाने तस्यैव देवस्याग्रमहिषी स्वयंप्रभाभिधाना देवीत्वेन, अन्तर्मुहूर्त्तमात्रेणैव सर्व| पर्याप्तिभिः पर्याप्ता भवप्रत्ययावधिज्ञानविदित पूर्वभवव्यतिकरा समं ललिताङ्गकदेवेनावतीर्य तमेवाम्बरतिलकपर्वतं । | मनोरमोद्यानसमवसृतं समभिवन्द्य युगन्धरगुरुमुपदर्श्य तदग्रतो भक्तिभरनिर्भरं नाट्यविधिं पुनः स्वविमानं गता | दिव्यकामभोगान् सुचिरमासिषेवे अन्यदा च प्रम्लानमाल्यमालमधोमुखनयनयुगलमालोक्य किमपि ध्यायन्तं ललि - ताङ्गकदेवमभिहितमनया - प्राणेश ! किमद्य विमनस्कस्त्वमीक्ष्यसे?, तेनोदितं - प्रिये ! मे स्तोकावशेषमायुः, समासन्नीभृतस्त्वया सह विप्रयोगः, ततस्तस्या अपि तदुःखदुःखितायाः कदाचिदपि पश्यन्त्या एव नन्दीश्वरयात्राप्रस्थितः प्रधान
For Private & Personal Use Only
श्रेयांसकुमारचरित्रं
।। ३१२ ॥७
ww.jainelibrary.org