SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ । कदाचिदत्यन्तान्धकारेऽपि ज्योतिःप्रकाशेन करोषि च स्वकार्याणि, दुःखिनस्तु तेऽत्र संसारे ये सततमेव संपद्यमा-1 नाशुभशब्दरूपगन्धरसस्पर्शा निष्प्रतीकारशीतादिवेदना अक्षिनिमेषमात्रमपि कालमनवाप्तनिद्रासुखा नित्यान्धकारेषु । नरकेषु नरकपालैरनेकप्रकारकदर्थनाभिः कदर्थ्यमाना निरुपक्रमायुषः प्रभूतं कालं गमयन्ति, किंच-आसतां तावनारकाः, येऽमी तिर्यञ्चस्तेऽपि वराकाः स्वपक्षपरपक्षोपजायमानाभिघाताः शीतोष्णक्षुत्पिपासादिवेदना या अनुभवन्ति ताः प्रभूतकालेनापि कः शक्तो व्यावर्णितुं ?, अपरं च-ये त्वत्तो हीनतरा बन्धनादिपतिताः परवशाः शारीरमानसानि दुःखशतसहस्राणि मनुष्या अपि वेदयन्ते तानपि पश्य तावत् त्वदेपक्षया किं दुःखमनुभवन्ति ?, ततस्तया प्रणामपूर्वमभाणि-भगवन् ! अवितथमिदं यत्त्वयोक्तं, कवलमस्य दुःखस्य प्रतीकारभूतमनुरूपं मद्योग्यताया ममाप्युपदिश किमपि धर्मानुष्ठानं यदासेव्याहं जन्मान्तरेऽपि नैवंविधदुःखभागिनी भवामि, ततो निवेदितानि | सूरिणा तस्याः पञ्चाणुव्रतानि, गृहीतानि तया भावसारं, लोकाश्च तदीयदेशनया प्रतिबुद्धाः केचिदडीचक्रिरे सर्वविरतिम् अन्ये देशविरतिमपरे सम्यक्त्वमात्र, ततः केनापि जनेन समं प्रणम्य सूरि निर्गतिकतया गता स्वकीयमेव गृहं; तत्रस्था च पालयति व्रतानि, क्रमेण तारुण्यमारूढा दौर्भाग्यदोषेण न केनापि परिणीता, षष्ठाष्टमादितपो Jan Education For Private Personal Use Only Tww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy