SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ अनिव०वृह दूवृत्ती अतिथिसं विभागे ॥ ३११ Jain Education Inte निर्द्धाटिता रुदन्ती निःसृता गेहात, ददर्श चाम्बरतिलकपर्वताभिमुखं व्रजन्तमनेकलोकं, जगाम तेनैव सह सा तं प्रदेशं, ततोऽसौ विलोकयामास तत्रानेकविधफलभरावनम्रपादपाकुलं गृहं शकुनिसार्थानामावासभमिं मृगादीनामत्युच्चशि| खरैर्गगनाङ्गणमिव मातुमुद्यतमम्बरतिलकाभिधानं पर्वतं तस्मिंश्च दृष्ट्वा मनोरमोद्यानवर्त्तितरुनि करफलान्याददानमने|कलोकं स्वयंपाकपतितस्वादुफलनिकरमादाय साऽपि भक्षितवती, रमणीयतया च गिरेः संचरन्ती सह जनेन तांस्तानुद्देशानश्रौषीत् कस्यापि श्रुतिमनोहरं शब्दं, तदनुसारप्रवृत्तजनेन सार्द्धं जगाम साऽपि यावत्तं प्रदेशं तावद्ददर्शापरिमितानां ||देवमनुष्यादीनामग्रे धर्मकथां कुर्वाणं चतुर्दशपूर्वविदं ज्ञानचतुष्टयविज्ञातप्रत्यक्षवस्तुविस्तरं चारुतरयतिपरिवारं युगन्ध| राभिधानं सूरिं, ततः साऽपि समं तेन लोकेन प्रणिपत्य भगवन्तं निषण्णा ततो नातिदूरदेशे, श्रुता जीवानां बन्धमो| क्षादिदेशना, कथान्तरे च पप्रच्छेषा तं महामुनिं - किं मत्तोऽपि केऽपि जीवाः सन्ति दुखिनः ?, सूरिणाऽभ्यधायि - भद्रे ! कीदृशं ते दुःखं ?, यतस्त्वं शृणोषि शुभाशुभान् शब्दान् पश्यसि सुन्दरा सुन्दराण्यनेकरूपाणि जिघ्रसि प्रधानाप्रधानान् | अनेकविधगन्धान् आस्वादयसि मनोज्ञामनोज्ञान् कटुतिक्तकषायमधुरादिरसविशेषान् स्पृशसीष्टानिष्टाननेकशो | विचित्रस्पर्शान्, विद्यते च भवत्याः शीतोष्णक्षुधादिदुःखस्य कोऽपि कियानपि प्रतीकारः, स्वपिषि च त्वमात्मीयनिद्रया, For Private & Personal Use Only श्रेयांसकुमारचरित्रं ॥ ३११ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy