SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ श्रीनवoबृह. द्रवृत्तौ अतिथिसं विभागे. ॥ ३०८ ॥ Jain Education Interi ? रस्तु- असहनं साधुभिर्याञ्चायां कृतायां कोपकरणं, तेन रङ्केणापि याचितेनेदं दत्तम् अहं तु किं ततोऽपि न्यूनः ! इति विकल्पो वा, 'चेव' त्ति समुच्चये, तथा कालस्य प्रस्तुतसाधुभिक्षावेलारूपस्यातिक्रमः - अदित्सयाऽनागत| भोजनपश्चाद्भोजनद्वारेणोलङ्घनं कालातिक्रमस्तेन दानं कालातिक्रमदानं, अस्मिंश्च क्रियमाणे ग्राहका एव न भवन्ति, यदुक्तम् - " काले दिण्णस्स पहेणयरस अग्घो न तीरए काउं । तस्सेवाथक्कपणामियरस गेव्हंतया नत्थि ॥ १ ॥ " ' अथक्कत्ति अप्रस्तावः, अत एवैवमुपदेशः - सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्म| साधनसामग्री, नाल्पपुण्यैरवाप्यते ॥ १ ॥ एवं चैतान् ' अतिचारान् ' प्रस्तुतत्रतमालिन्यरूपान् ' पंचे 'ति पञ्चसङ्खयान् 'वर्जयेत्' त्यजेत् अतिचारभावना तु यदा अनाभोगादिनाऽतिक्रमादिना वैतानाचरति तदा अतिचारा | अमी, अन्यथा तु भङ्गा एवेति गाथार्थः ॥ इतोऽस्यैव भङ्गद्वारगाथा - I दाणंतराय दोसा न देइ दिज्जंतयं च वारेइ | दिने वा परितप्पड़, किविणत्ताओ भवे भंगो ॥ १२७ ॥ दानस्यान्तरायो - विघ्नो दानान्तरायस्तस्य दोषः तद्धेत्वन्तरायकर्मोदयलक्षणः, अथवा दानविघ्नहेतुः कम्मैव । For Private & Personal Use Only अतिचारद्वा रं भंगद्वारं च गा. १२६-७ ॥ ३०८ ॥ jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy