________________
श्रीनव० बृह. वृत्तौ
अतिथिसंविभागे.
॥ ३०७ ॥
Jain Education Inter
इति ॥ एवं सुखावलीनां हेतुः खल्वतिथिसंविभागोऽयम् । मोक्षफलः कर्त्तव्यो यथा कृतः शालिभद्रेण ॥ १ ॥ इति श्रीशालिभद्रकथानकं समाप्तमिति ॥ यतनाद्वारमधुनोच्यते
जं साहूण न दिनं कहंचि तं सावया न भुंजंति । पत्ते भोयणसमए दारस्सऽवलोयणं कुज्जा ॥ १२५ ॥
यत् ' साधुभ्यः ' तपस्विभ्यः ' न दत्तं ' नो वितीर्ण, कल्प्यमिति शेषः, 'कथञ्चित् केनापि प्रकारेण, * कहिंपी' ति पाठे कापि देशे काले वा तत् 'श्रावकाः ' यथावस्थितनामानः श्राद्धाः तथा च श्रावकशब्दस्यैवं व्युत्पत्तिः श्रावकप्रज्ञप्त्यादिषु यथा - " संपत्तदंसणाई पइदियहं जइजणा सुणेई य । सामायारिं परमं जो खलु तं । | सावगं बिंति ॥ १ ॥ " तथा - " श्रवन्ति यस्य पापानि, पूर्वबद्धान्यनेकशः । आवृतश्च व्रतैर्नित्यं श्रावकः सोऽभि - | धीयते ॥ १ ॥ " ' न भुञ्जन्ते ' नाभ्यवहरन्ति यदुक्तम् - " साहूण कप्पणिज्जं, जं नवि दिन्नं कर्हिपि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ १ ॥ " ननु तत्र ग्रामादिक्षेत्रादौ यदि कथञ्चिद्रतिनो न भवन्ति तदा का वार्त्ता ? इत्याह- ' प्राप्ते भोजनसमये ' जाते भुक्तिप्रस्तावे ' द्वारस्यावलोकनं कुर्यात् ' गृहद्वारसंमुखं पश्येत्,
For Private & Personal Use Only
यतनाद्वारं
गा. १२५
॥ ३०७ ॥
w.jainelibrary.org