________________
चरितम्
श्रीनव०बृहलवत्सचारणावाप्यमानजीविकेन कस्मिंश्चिदुत्सवे ददृशे गृहे गृहे पायसमुपभुज्यमानं जनैः, अजानता चात्मीयां प्राप्ति || | शालिभद्रअतिथिसं
प्रार्थिता करुणस्वरं रुदता माता-ममापि पायसं प्रयच्छ, ततः साऽपि तदाग्रहं तथाविधं दृष्ट्वा आत्मनश्च तत्सम्पा. विभागे |दनासामर्थ्य विचिन्त्य प्रवृत्ता रोदितुं, तदीयरुदिताकर्णनोदभूतकारुण्याभिः प्रातिवेशिकस्त्रीभिः कृता तत्तनूज-| ॥३०६॥ IN योग्या क्षीरादिदानेन पायससामग्री, ततोऽनया निष्पादिते पायसे भोक्तुमुपविष्टे च तत्र सङ्गमके कुतोऽपि समागतो
मासोपवासपारणाथीं महामनिरेकः, दत्तं चानेन प्रवर्द्धमानश्रद्धापरिणामेन प्रथममेव भोजनार्थोपात्तं पर्याप्त्या तत्तस्मै महामुनये, शेषं चाकण्ठप्रमाणं भुक्तमात्मना, तदजीर्णदोषेण वत्सचारणार्थ गतस्यारण्यमस्योदपादि महातृष्णा, तदभिमूतो जलाशयावलोकनपरायणो दृष्टस्तेन मुनिना, भणितश्च-भो ! नात्र प्रदेशे निकटवर्ति जलमस्ति भवतश्च
गाढमापदमुत्प्रेक्षे तदिदानी वरं पञ्चपरमेष्ठिनमस्कारानुस्मरणमेव भवतो युक्तं, तेनोक्तं-मुने! नाहं जानामि । Na तत्कर्तुं, ततः कृपापरीतचित्तेन तपस्विना-भोः संगमक ! अहमुच्चारयिष्यामि नमस्कारं भवतः कर्णमूले त्वया
त्वेकाग्रमनसा परिभाव्योऽयमिति प्रतिपाद्य प्रारब्धो नमस्कार उच्चारयितुम् [ ग्रन्थाग्रं ८५०० ] असावपि प्रकृति- ३०६ ॥ भद्रकत्वादिमध्यमगुणयोगिताऽवबद्धमनुष्यायुषरतदनुरूपप्रवईमानशुभपरिणामस्तदैव कालगतो मुनिदानानुभाव
sin Eduent an intensita
For Private & Personel Use Only
www.jainelibrary.org