SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ Jain Education Int | विहरन्तौ सह परमेश्वरेण कियतः कालात्पुनः समाययतुस्तदेव राजगृहं नगरं, भिक्षावेलायां च पारणकनिमित्तं यावत्तीर्थङ्कर| मभिवन्द्य चलितौ तावदुक्तस्तयोः शालिभद्रस्त्रैलोक्यनाथेन, यथा- त्वामद्य जननी भोजयिष्यति, ततो द्वावपि गोचरचर्यायां प्रविष्टौ गतौ भद्रागृहं, न च महावीरागमनश्रवणसंजातहर्षप्रकर्षया भद्रया वधूभिः सार्द्धं जिनशालिभद्रदर्शनाद्यौत्सुक्यव्याकुलत्वेन प्रस्थितया समवसरणभूमिं प्रत्यभिज्ञातावेतौ, अप्राप्तभिक्षौ च प्रत्यावृत्तौ ददृशाते भवितव्यताव| शेन दधिमथितक्रियाय नगरप्रविष्टाभिर्गोपवृद्धाभिः तन्मध्ये चैकस्याः शालिभद्र मालोक्य सन्तोषपोषसमुद्भिद्य - | मानबहलपुलकाङ्कितकाययष्टेः समुद् समुदपद्यत दधिदानाभिलाषः, ततो भणितः सप्रणामपूर्वं शालिभद्रोऽनयाभोः तपस्विन्! यद्युपकुरुते तदा गृहाणेदं दधि, तदनूपयोगपूर्व जग्राहासौ, तत्तुष्टचित्ता गताऽसौ स्वस्थानं, इतरावपि प्राप्तौ जिनान्तिकं कृतेर्यापथप्रतिक्रमणौ गमनागमनाद्यालोचनादिपूर्व स्थितौ क्षणमात्रं, पृष्टं च शालि. भद्रेण - भगवन् ! कथं मामद्य जननीर्भोजयिष्यति ?, तीर्थकृता न्यगादि-या तुभ्यं दृध्यदात् सा तवान्यजन्ममाता, यतस्त्वं पूर्वभवेऽत्रैव मगधाजनपदे समुपरते स्वभर्त्तरि प्रक्षीणे पूर्वसञ्चिते सकलेऽपि वसुनि देशान्तरादागत्य शालि | ग्राममाश्रिताया अस्या एव धन्याभिधानायाः पुत्रः सङ्गमको नाम वत्सपालको बभूविथ, तेन च कदाचित्त्वज्जीवेन " For Private & Personal Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy