________________
शालिभद्रस्य प्रसादः, अभ्युपेतं भमिपतिना, कारिता तदनु सकलाऽपि सामग्यनया, अभ्यञ्जितः सहस्रपाकादिस. तलैश्चारुविलासिनीभिः, स्नापितो विधिना, गहीतवस्त्रालङ्कारश्च सर्वर्तकक्रीडावनं कौतुकेन प्रविष्टो ददर्श विमल-ना जलपूर्णी शालिभद्रस्य मज्जनवापी, तद्विलोकनाकुलितमानसस्य चास्य कथञ्चित्पतितमगुलीयकं वापीमध्ये, ततो भद्रया समाचार्यन्यत्र तज्जलं यावत्तावदपश्यद्विद्यदुद्योतभासुरमाभरणसमूह, तन्मध्ये स्वाङ्गुलीयकं चाङ्गारतुल्यं, । राजाऽपृच्छच्च-किमेतत् ?, भद्राऽवोचत्-यथा शालिभद्रस्य तद्भार्याणां च यदाभरणनिर्माल्यं प्रतिदिवसमत्र निपतति तदिदं, ततो विस्मितमना अहो! प्राग्भवोपार्जितपुण्योपचयविलसितं शालिभद्रस्य यदेवं मनुष्यस्याप्यचिन्ति-16 तोपनतं सर्व देवानुभावात्संपद्यत इत्यादि चिन्तयन् भोजितो भद्रया सपरिवारोऽनेकविधरसविशेषमनोहरमाहार-12 जातं भूपतिः, तदनु वितीर्णानेकप्रकारताम्बूलवस्त्रालङ्कारादिपदार्थसार्थों गतः स्वावासं । शालिभद्रस्तु तत्प्रभृति । संविग्नमानसो गमयामास कियन्त्यपि दिनानि, अन्येयुश्च समाययौ तत्राप्रतिबद्धविहारेण विहरन् धर्मघोषाभिधान आचार्यः, आवासितो बाह्योद्याने, वातायनवर्ती शालिभद्रो विलोक्य तद्वन्दनाय प्रचलितमनेकलोकं पप्रच्छ र चरं, यथा-कायं जनसमाजो याति ?, भणितमनेन-सरिवन्दनार्थ, ततोऽसावपि जननीमापच्छय जगामाचार्यसन्नि
Jain Education Hellonal
For Private & Personal Use Only
www.jainelibrary.org