________________
शालिभद्र
श्रीनववृहत
वृत्ती अतिथिस
चरितम्
विभागे
का ३०३॥
रुपविष्ट आस्ते, तेनोदितम्-अम्ब ! स्वयमेव मूल्यं कृत्वा गृहाण यदागतमस्ति, तयोदितं-जात ! नेदं क्रयणीयं वस्तु, किंतु भवतो जनस्य च सर्वस्य स्वामी श्रेणिको नाम राजा तव दर्शनार्थ गृहमायातो विद्यते, तदेहि कुरु तदर्शनं, एतदाकर्ण्य ममाप्यन्यः स्वामीति विचिन्तयन् गतो विषादं, उक्तञ्च-" मणिकणगरयणधणपूरियंमि भवणंमि सालि. भदोऽवि । अन्नो किर मज्झवि सामिउत्ति जाओ विगयकामो ॥ १ ॥ न करिति जे तवं संजमं च ते तुल्लपाणिपायाणं । पुरिसा समपरिसाणं अवस्स पेसत्तणमवेति ॥२॥" अलध्यं मातृवचनमित्युत्थाय गतो नपासन्नभमि, कृतप्रणामो निवेशितो निजोत्सङ्गे राज्ञा, व्यचिन्ति च निर्वर्णयताऽनुपमां तच्छरीरशोभां-निःशेषजनमनोहरममुष्य यादृक्षमङ्गलावण्यम् । तादृशममराणामपि सेन्द्राणां नास्ति मन्येऽहम् ॥१॥ अङ्गप्रत्यङ्गनिरीक्षणाक्षणिकचित्तेन यावदक्षेपि चक्षुरस्याऽऽस्यकमले नरपतिना ताबद्ददृशेऽश्रुपूरपूरितमेतस्य नयनयुगलं. पृष्टा च तज्जननी-किमेतत् , तयोदित-देव ! अस्ति विज्ञप्तिकाऽत्र, शालिभद्रपिता देवेषूत्पन्नः, स च पुत्रस्नेहेन देवलोकसत्कगन्धमाल्यालङ्कारा-14 दिभिः प्रतिदिनमभिनवाभिनवैरेनमुपचरति अतो नायं मानुषोपभोग्यभोगाङ्गगन्धं सोढुं शक्नोति, तन्मुञ्चतामुं। बजतु स्वस्थानमेषः, ततो विमुक्तो गतः स्वस्थानं, अत्रान्तरे विज्ञप्तं भद्रया-अत्रैव भोजनकरणेन विधीयतां
JainEducation in
For Private Personal use only
www.jainelibrary.org