________________
स्वीक्रियन्तामपराणि पुरातनानि, ततो गत्वा तेन निवेदितं तत्सकलमेव श्रेणिकस्य, सोऽवोचद्-द्रष्टव्योऽसौ शालिभद्रो यस्यैतावती समृद्धिः, वयं च धन्या यन्नगरनिवासिनः स्वसम्पदधरीकृतवैश्रमणा एवंविधा वणिजः, तदनन्तरं भाणयामास भद्रो-यथा इच्छामो वयं शालिभद्रस्य दर्शनं, तया भाणित,यथा-प्रसीदतु देवः, शृणोत्वस्मद्विज्ञप्ति शालिभद्रो न कदाचित्सप्ततलप्रासादाबहिनिःसरति, सुरवितीर्णमाणिक्यनिकरनिराकृततिमिरसन्ततौ स्वभवने विचित्रक्रीडाभिः । क्रीडन् सह स्वप्रियाभिः नापि सूर्याचन्द्रमसौ विलोकयति, तद् यदीह्यते शालिभद्रस्य दर्शनं देवेन तक्रियतामेतद्N गृहागमनेन प्रसादः, एवमस्त्वित्यभ्युपगते राज्ञा भूयोऽप्यबीभणद् भद्रा- यद्येवं यावदहं प्रगुणयामि गृहादि तावन्नो
त्सुकेन भाव्यं गृहागमनं प्रति स्वामिना, ततः कारितो भद्रया स्वभवनादारभ्य नरेंद्रमन्दिरसिंहहारं यावद्देवाङ्गवस्त्रादिभिः स्थानस्थानदत्तानेकप्रकाररत्नहारैर्दिव्योल्लोचः, पदे पदे प्रारब्धानि विचित्रनाटकादिप्रेक्षणकानि, पश्चादाकारितो नृपतिः, समागन्तुं प्रवृत्तः सान्तःपुरपरिजनः सकलसामग्र्या, प्राप्तो दिव्यदेवांशुकोल्लोचलम्बमानरत्नावचूलशोभां वीक्षमाणः प्रमदभरनिर्भरः शालिभद्रभवनं, कृतोचितविनयप्रतिपत्तिनिवेशितः सिंहासने, सप्ततलप्रासादोपारिभूमिकावस्थितस्य शालिभद्रस्य सविधमुपगत्य भाणितं भद्रया-वत्स! समागच्छाधोभमिकां श्रेणिकनपति
For Private
Personel Use Only
www.jainelibrary.org