SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ च्छेदाच्छिन्नं तेनास्य विषयसुखम् ॥१॥ ततोऽवबुद्धप्राग्जन्मवृत्तान्तः कृतपुण्यकस्तरकालोचितविहितकर्त्तव्यो महाविच्छ न समुत्पन्नसंवेगातिशयो गृहीत्वा भगवत्पादमूले प्रव्रज्यां परिपाल्य यावदायुष्कं विधानेनाराधितविधिमरणः ।। समुत्पेदे देवत्वेनेति ॥ समाप्तं कृतपुण्यकाख्यानकम् ॥ ___ शालिभद्रकथानकं त्वेवम्-मगधाभिधानदेशे राजगृहे पत्तने गुणसमृद्धे । आसीच्छ्रेणिकराजस्तद्भार्या चेल्लणाभिख्या ॥१॥ नगरे तत्रैव तदा गोभद्राख्यो बभूव सुश्रेष्ठी । तस्य च भद्रा जाया ददर्श सा स्वप्नमन्येद्युः ॥२॥ रजनीविरामसमये । || शालिवनं विविधफलभरावनतम् । प्रतिबुद्धा निजभर्तुः कथितवती सोऽपि तामाह ॥ ३ ॥ पुत्रस्तवाशु भविता, निःशेषकलाकलापकुलवसतिः । तस्यामेव रजन्यामभूदमुष्याः प्रवरगर्भः॥ ४ ॥ तत्र प्रवर्द्धमाने शालिवनक्रीडनाभिलाषश्च । जज्ञे कदाचिदस्यास्ता पूरितः क्षिप्रम् ॥ ५॥ कालेनासूत सुतं देवकुमारोपमं तदनु भद्रा । द्वादश दिनानि पित्रा सवः कारितः प्रीत्या ॥६॥ तदनन्तरमभिधानं चास्य कृतं गरुजनेन तष्टेन। सस्वप्नदोहदस्यानुरूप्यतः शालिभद्र इति॥७॥ वृद्धिं गतः क्रमेण च कान्त्या बुद्धया कलाकलापेन । हात्रिंशदिभ्यकन्याः पित्रा परिणायितः प्रीत्या ॥ ८ ॥ गोभद्रस्तु कदाचित्स्वीकृत्य जिनेन्द्रभाषितां दीक्षाम् । विधिनाऽनुपाल्य मृत्वा देवो वैमानिको जातः ॥ ९ ॥ पूर्व Jain Education a l For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy