________________
सार्थे तथैव खट्टायां शायिनमुच्छीर्षकविनिवेशितसंबलकप्रसेविकं मदिरामदापहृतचेतनं नीत्वा मुमुचुस्तास्तस्यामेव । देवकुलिकायां कृतपुण्यकं, कियत्याऽपि वेलया प्रत्यायातचैतन्यः किं स्वप्नोऽयमत सत्यमिदमित्यादि चिन्तयन् विदितसार्थागमनवृत्तान्तया तद्भार्यया समागत्य विभातप्रायायां रजन्यां तं प्रदेशं गृहीत्वा तामुच्छीर्षकात् संबलकस्थगिकाम् उत्पाट्य खट्वां नीतोऽसावनुपहताङ्गलावण्यानुमीयमानविविधविलासानुभवनसौस्थ्यः कर्पूरकस्तूरिकादि-4 दिव्यपरिमलवासितदिगन्तरालो निजवेश्म, कारयितुमारब्धः स्नानाधुचितकरणीयं, अत्रान्तरे समागतो लेखशालायास्तत्पुत्रः, पातितोऽस्य पादयोजनन्या, कथितं च त्वत्तनयोऽयं, तेनाप्युक्ता माता यथा-दीयतां मे भोजनं येन कृताभ्यवहारो गत्वा लेखशालायां पठामि, ततः कान्तिमत्या तस्या एव स्थगिकाया मध्यादत्त एको मोदकः, भुञ्जानश्च वीक्षितवांस्तन्मध्ये मणिमेकं. गृहीत्वा गतो लेखशालायां. दर्शितोऽन्यलेखशालिकानां तैर्भणितंयद्येष कन्दुकापणे क्षिप्यते तदा प्राप्यतेऽभीष्टभक्ष्यं ततः कृतं तेन तथैव, इतश्च कान्तिमत्या यावत्ते मोदका व्यापारयितुमारब्धास्तावत्प्राप्तास्ते विचित्रमणयः, ततः पृष्टः कृतपुण्यकः-किमेते चौरभयेनैवं मणयः कृताः?, तेनोदितम्-एवं, अन्येद्युश्च श्रेणिकराजसत्कः सेचनककरी पानीयपानायावतीर्णः सरोवरं, जलमध्यप्रविष्टो गृहीतस्तन्तुकेन जलज-||
Jain Education Inter
For Private Personal Use Only
Anjainelibrary.org