SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ श्रीनंव० बृहवृत्तौ अतिथिसंविभागे २९७ ॥ Jain Education Vers || पूर्वदृष्टो महामुनिः प्रविष्टः कथञ्चित्तदीयमेव वेश्म, विलोकितो वसुदत्तेन समुल्लसितभक्तिना, नूनं ममाप्यस्ति काचित् | पुण्यभाजनता ययेदृशी सामग्री संपन्ना, यत उक्तं - " केषाञ्चिच्चित्तवित्तं भवति भुवि नृणां दानयोग्यं न पात्रं, पात्रे प्राप्ते परेषां गुणवति भवतो नोचिते चित्तवित्ते । स्याच्चित्तं नापरे हे द्वितयमपि भवेत्कस्यचिन्नैव वित्तं, चित्तं कस्यापि नोभे उभयमपि न तद् दुर्लभं यत्समग्रम् ॥ १ ॥ " इत्यादि चिन्तयता श्रद्धातिशयसंपन्नबहुलपुलकजालकाङ्कित| कायेनोपादाय पायसस्थालं प्रतिलाभयित्वा तत्त्रिभागेन मुनिपुङ्गवमचिन्ति चेतसि यथा - अतिस्तोकमेतत्, नानेन मुनेरर्द्धाहारोऽपि संपत्स्यते, ततो भूयो दत्तस्त्रिभागो, हन्ताद्याप्यल्पमेतत् न पर्याप्त्या भविष्यति, यदि चैतस्य मध्ये|ऽन्यत्कदन्नं पतिष्यति तदैतदपि विनङ्क्ष्यति, कियहा महामुनिरसौ पर्यटिष्यति ?, तत्परिपूर्णमेव प्रयच्छामीति पर्यालोचयता पुनः क्षिप्तमशेषमेव तत् मुनिपात्रे, गतो मुनिस्तद्गृहीत्वा तस्य च मात्रा दत्तमन्यत्यायसं, भुक्तं यथेच्छं | भोजनावसाने गतो वत्सचारणायाटव्यां भवितव्यतावशेन जाता तत्र दिने वृष्टिः, तद्भयाच्च गतानि दिशो दिशं वत्सरूपाणि तानि च मीलयतोऽस्यास्तं गतो दिनकरः, संपन्ना तमःपटलालक्ष्यमाणनिम्नोन्नतविभागतया दुःसञ्चारा विभावरी, स्थगितानि पुरद्वाराणि ततोऽसौ प्राकारभित्तिकोणमाश्रित्य स्थितो नगरद्वार एव, कियत्यां च वेलायामस्य For Private & Personal Use Only गुणे कृतपुण्यककथा ।। २९७ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy