SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna 1 वत्सकांश्चारयित्वा यावद् गृहमायाति स्म तावद्ददर्श गृहे गृहे पायसं संस्क्रियमाणं, ययाचे च मातरं - अम्ब ! ममाद्य प्रदीयतां पायसं सा च संस्मृत्य निजभर्तृकालं पश्य दुर्वारविधिविलासितं धनवसुश्रेष्ठिनः पुत्रो भूत्वा कथमेष | परानुकम्पनीयामवस्थामवाप ?, न चेदं विजानाति मदीयमातुः कुत एतावती संप्रति प्राप्तिः ?, हा सत्यं कृतमिदमरमतनयेन यदिदमुद्धृष्यते लोकैर्यथा - " तस्करा डिम्भरूपाणि, ब्राह्मणाः श्रमणा नृपाः । पञ्चाप्येते न जानन्ति, परपीडां | कदाचन ॥ १ ॥ " इत्यादि चिन्तयन्ती रोदितुमुपचक्रमे तदीयरुदिताकर्णनोपजातपरमकारुण्याश्च प्रातिवेशिक - | सीमन्तिन्यः समागत्य पप्रच्छुर्यथा - किं भगिनि ! एवं कहकहध्वानरुडगलसरणि रुद्यते भवत्या ?, किं न संप - द्यते तव ?, कथ्यतां यद्यकथनीयं न भवति, ततस्तया महाग्यान्येव पृच्छत येषामीदृग्विलसितमित्यभिधाय कथि - तस्तनूजवृत्तान्तः, ताभिरभाणि - यद्येवं मा रोदी, संपादयिष्यामो वयमेवैतदुपस्करं, ततश्च कयाऽपि तन्दुलाः कयापि दुग्धं कयाऽपि गुडखण्डादि प्रदत्तमस्यै, भणितं त्र - यथा प्रभाते पूरणीयास्त्वया पुत्रमनोरथा अनेनोपस्करेण, द्वितीयदिने । | च प्रातरेव भणितो वसुदत्त:- वत्स ! अद्य त्वद्योग्यां क्षैरेयीं करिष्याम्यतः शीघ्रमेवागन्तव्यं भवता, ततोऽसौ प्रहरद्वय| समये समायातो, गृहमुपविष्टो भोजनाय भृत्वा भाजनं पायसस्य समर्पितं जनन्या, अत्रान्तरे समाययौ स एव मासपारण के For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy