________________
वृत्तौ
ण्यककथा
श्रीनवबृहभिक्षादिकालमार्गग्रामादिक्षेत्रग्लाननीरोगाद्यवस्थायोग्यं स्तोकमपि देयवस्तु सुसाधुजनाय श्रद्धापुलकिततनवः
गुणद्वारं गा.
१२४ कृतपुप्रयच्छन्ति ते स्वर्गापवर्गाद्यनुपमसुखभाजो भवन्तीति गाथासक्षेपार्थः ॥ विस्तरार्थः कथानकाभ्यामवसेयः, अतिथिसंविभागे. तयोश्चाद्यं तावदिदम्॥१९६॥
विजयपुराभिधानपत्तने विजयसेननरपतौ नीत्या कोशकोष्ठागारादिसंपत्समृद्ध सप्ताङ्गं राज्यमनुपालयति धनवसुश्रेष्ठिनः पद्मश्रीभार्याया वसुदत्तनामा पुत्रोऽभवत्, तस्मिंश्च जातमात्र एव धनवसुश्रेष्ठी पञ्चत्वमुपजगाम, ततस्तदुपरमे दिवाकरास्तंगमने भुवनप्रकाशहेतुः किरणसम्पदिव क्षयमुपेयाय सकललक्ष्मीः, पद्मश्रीस्तु । परिम्लानिमागताऽऽत्मनो निर्वाहं तत्रापश्यन्ती वसुदत्ततनूजमुपादाय धनमानविगमे विदेशगमनमेवोचितं मानधनानां न तु कर्मकरादिवृत्त्या स्वदेश एवावस्थानमिति चिन्तयन्ती प्रययौ श्रीपुरनाम नगरं, स्थिता तत्र कञ्चन श्रेष्ठिनं समाश्रित्य, वसुदत्तस्तु कृतस्तद्गृह एव वत्सपालकः, तत्प्रसङ्गन प्रातिवेशिकलोकवत्सकानां स एव चिन्तां कर्तुमारेभे, ततो ब्रजत्सु केषुचिदिवसेषु वत्सचारणाय गतोऽन्यदा नगरबहिवं, ददर्श महामुनिमेकं || ॥ २९६ वन्दे भावसारं, तस्मिंश्च दिने तत्र नगरे पायसभोजिकामहोत्सवो जनस्य, ततोऽसौ वसुदत्तबालकः कस्याश्चिद्वलायां ||
Jain Education Intern
For Private & Personel Use Only
jainelibrary.org