SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ निरन्तरायमाचरतोऽनुदिनं जिनवन्दनाद्युपचारमुपरचयतोऽनेकप्रकारं मुनिनाथदानमनोरथावली समाजगाम कार्तिकपौर्णिमासीदिनं, समुत्थितः प्रातरेव, गतो भगवतो वन्दनार्थ, ववन्दे भावसारं, विज्ञातवांश्च यथा-स्वामिनः पारणकदिनमद्य, ततो यदा कायोत्सर्ग पारयति तदा मम ज्ञाप्यमित्येवमर्थ धृतस्तन्निकटवर्ती पुरुषः, स्वयं प्रयातो गृहं, अत्रान्तरे पारितो भगवता कायोत्सर्गः, प्राप्तः पुरुषः श्रेष्ठिसमीपमचकथत तवृत्तान्तं, प्रवईमानशुभाध्यवसायकण्डकश्चलितरतन्निमन्त्रणाय यावज्जगाम कियन्तमपि भूभागं तावजलभारमेदुरोदराम्भोधरमधुरतारगर्जितमिव शुश्राव । देवदुन्दुभिध्वनि, व्यज्ञासीच्च लोकाद् यथा संपन्नं भगवतोऽभिनवश्रेष्ठिगेहे पारणकं, संजातस्तत्र पञ्चदिव्यप्रादुर्भावः, ततोऽवस्थितपरिणामो व्यावृत्योपेयाय स्वमन्दिरं, तत्प्रस्तावे च समवसृतः तत्र पार्श्वनाथतीर्थकृत्सत्कः केवली, पृष्ट-d स्तत्रत्यलोकैः-जीर्णाभिनवोष्ठिनोः कः पुण्यभागिति, केवलिनोदितं-जीर्णश्रेष्ठी, लोकैरभिहितं-कथं ?, केवली । निजगाद-चत्वारो मासा अस्य जीर्णश्रेष्ठिनो भगवत्पारणकं कारयतः, अनुदिनप्रवर्द्धमानशुभपरिणामेन चानेनोपार्जितं । प्रभूतपुण्यं, अद्य च यदि जिनस्य पारणकसूचकं नाश्रोष्यदेष देवदुन्दुभिध्वनि तदा क्षणेनातिविशुद्धाध्यवसायसामयेन केवलमुदपादयिष्यत्, तस्मादयमेव पुण्यभागिति ॥ समाप्ते द्वे अपि यथोद्दिष्टे कथानके॥प्रस्तुतोपसंहारश्चायं Jain Education Intel For Private & Personal Use Only jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy