SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ बलदेवेन-भो मुग्धपुरुष ! यः तव रथो गिरिगहराणि विलध्यास्मिन् समे पथि शतखण्डीभुतः स कथमेष त्वया सन्धीयमानोऽपि प्रगुणो भविष्यति ?, देवेनोक्तं य एष तव भ्राता अनेकेषु युद्धशतेषु युध्यमानो न मृतः । स इदानी युद्धं विनैव मृतो यदा जीविष्यति तदा रथोऽपि प्रगुणो भविष्यतीत्यादिदृष्टान्तैः प्रत्यानीतचेतनो । - देवेन स्वरूपमुपदर्य प्राग्वृत्तान्तकथनपूर्वकं प्रतिबोधितो बलदेवस्त्याजितो हरिकलेवरं, कारितो नदीहयपुलिने । सत्कारमस्य, अत्रान्तरे भगवता अरिष्ठनेमिना विज्ञाय बलदेवस्य प्रत्रज्यासमयं प्रेषितो विद्याधरश्रवणो, दत्ता तेन तस्य प्रव्रज्या, तामादाय तुङ्गिकागिरिशिखरे घोरतपश्चरणं कर्तुमारब्धः, एष प्रायेण च मासान्मासात्तृणकाष्ठहारकादिभ्यो भक्तपानप्राप्ती प्राणयापनां करोति, अन्यदा मासपारणकदिने भिक्षार्थ नगरमेकं प्रविष्टे तस्मिन्नेका कामिनी समुपारूढप्रौढयौवना पानीयादानायावटतटनिकटवर्तिनी तद्रूपातिशयसमाक्षिप्तमनस्कतया समासन्नवर्तिनं स्वबालकमपि रुदन्तमजानती घटककर्णभ्रान्त्या तद्गलक एव समाधाय रज्जु कूपे प्रक्षेप्तुमारब्धा, समीपवर्तिना चान्येन सोपालम्भं निर्भय॑ विरूक्षाक्षरै हिता प्रतिबोधं त्याजिता श्वासावशेषं गर्भरूपं, अयं च । वृत्तान्तो जातो दृष्टिगोचरचारी बलदेवमुनेः, विषण्ण एष मनसा-हा घिग विरूपं मे रूपं यदित्थं Jain Education Emainal For Private & Personal Use Only Tww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy