________________
श्रीनव०वृह वृत्तौ अतिथिसं
विभागे
॥ २८७ ॥
Jain Education Inte
सिंहनादं येनायं मदीयभ्राता विनिपातितः स यदि सत्यमेव सुभटस्तदा ददातु मम दर्शनं, न खलु सुप्ते प्रमत्ते व्याकुले वा प्रहरन्ति धीराः, तन्नूनं पुरुषाधमः कश्चिदसावित्येवमुञ्चशब्देन प्रतिपादयन् समन्ततो दिशश्वावलोकयन् पर्यट्य तत्पार्श्ववर्त्तिदेशं पुनः समागतो गोविन्दसमीपं गाढमोहाच्छादितविवेक लोचनः प्रवृत्तश्च प्रलपितुं - हा भ्रातः ! जनार्दन ! पृथिव्यामेकवीर ! मामेकाकिनमपहाय क्व गतोऽसि ?, किंवा ममैवं प्रलपतोऽपि वाचं न ददासि ?, सम्प्रत्येष पुरुषोत्तम ! दिवसकरोऽस्तगिरिशिखरानुसारी वर्त्तते, तदुत्थाय विधेहि सन्ध्योपासनं, न ह्युत्तमपुरुषाः स्वपन्ति सन्ध्यासमये, रजनी चेयं बहलान्धकारा क्रूरश्वापदसङ्कुलायामटव्यां | कथमेवं निगमनीयेत्यादि प्रलपत एव प्रभाता रजनिः, समुद्गतो दिनकरः, तथाऽपि यावन्नोत्तिष्ठति हरिस्तावत्त| त्स्नेहमोहितमना बलदेवस्तद्वियोगमनिच्छन्नात्मनः स्कन्धे समारोप्यैनं प्रवृत्तो गिरिकाननविवरेषु पर्यटितुं, अत्रा - न्तरेऽतिक्रान्ता अस्य षण्मासाः ततो यः सिद्धार्थनामा सारथिः पूर्वगृहीतत्रतो देवीभृतः सोऽवधिज्ञानेनावलोक्य | तदवस्थं बलदेवं तत्प्रतिबोधनाय समागतस्तं प्रदेशं, देवमायया दर्शितो बलदेवस्य पर्वतत्रिकटकूटसङ्कट प्रदे शेभ्य उत्तरन्महारथः, स च समभूमिमनुप्राप्तो गतः शतखण्डतां, ततस्तं संधातुमिच्छन् सिद्धार्थदेवो भणितो
For Private & Personal Use Only
उत्पीत्तद्वारे कुरंगजीर्ण श्रेष्ठिन
गा. १२२
॥ २८७ ॥
www.jainelibrary.org