SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ saraoge - वृत्तौ अतिथिसं भागे. ॥ २८६ ॥ युक्तेभ्यः षड्जीवनिकायरक्षणपरेभ्यः । पञ्चेन्द्रियविरतेभ्यः समितेभ्यः पञ्चसमितिषु च ॥ १ ॥ समतृणमणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं, तद्दानं भवति धर्माय ॥ २ ॥ " नन्वत्र को हेतुः यदेवंविधपात्रेभ्यो दीयमानं दानमक्षयादिगुणविशिष्टं भवति ?, ब्रूमो विधिविशेषाद्द्रव्यविशेषाद्दातृविशेषात्पात्रविशेषाच्च फलविशेष इति, इत्थं चेदमङ्गीकर्त्तव्यम् अन्यथा - "दंसणनाणचरित्तं, तवविणयं जत्थ जत्तियं पासे । जिणपण्णत्तं भत्तीऍ पूयए तं तहाभावं ॥ १ ॥ " इत्येतत्कल्पभाष्योक्तं विघटेत, नहि तत्र जिनप्रणीतदर्शनादिगुणसमुदायवत्पात्र पूजैव सफलेत्येतत्प्रतिपादितं, किन्तु ' जत्थ जत्तियं पासे ' इति वचनाद्यथासंभव भाविगुणपूजाऽपि फलविशेषहेतुर्भवत्येव, ततश्च यत्र समुदितगुणयोगस्तत्र पात्रे प्रदीयमानदानस्य महत्फलं, अन्यत्रापि दातुः स्वकीयभाववशेन विशिष्टमेव फलं | यदुक्तं व्यवहारभाष्ये - " निच्छयओ पुण अप्पेऽवि जत्थ वत्थुमि जायई भावो । तत्तो सो निज्जरओ जिणगो| यमसीह आहरणा ॥ १ ॥ " ' सीह त्ति सिंहजीवोदाहरणादिति, किञ्च - अनुकम्पादानस्य सर्वत्र जिनैरनिषिद्धत्वादेव चेदमवबुध्यते, तस्मात्स्थितमेतत् - द्रव्यदातृपात्रविधिसामग्याऽक्षयादिगुणं दानमिति किमेत एव भेदा उतान्येऽपि केचन सन्ति ?, उच्यते, सन्ति, यत आह ग्रन्थकृत् - ' भेदाः ' प्रकाराः ' अथैवमादिका:' इत्येवम्-उक्तप्रकारा अशनादय आदयो येषां कम्बलपादप्रोच्छन कादीनां त एवमादय इति गाथार्थः ॥ तृतीयद्वारम् - I " Jain Education Internet For Private & Personal Use Only भवद्वारं गा. १२१ ॥ २८६ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy