________________
एसो सुस्सूसणाविणओ ॥ ३ ॥" ति, तथाऽपि पौषधोपवासपारणकेऽवश्यं साधुसंभवेऽमुं कृत्वा भोक्तव्यम् अन्यदा त्वनियम इति दर्शनार्थ पौषधानन्तरमभिहित इति गाथार्थः॥भेदोऽधुनाऽस्योच्यते
असणं पाणं तह वत्थपत्तभेसजसेजसंथारो।
__ अतिहीण संविभागे भेया अह एवमाईया ॥ १२१ ॥ __ अश्यत इति अशनं-ओदनादि पीयत इति पानं-क्षीराश्रावणसौवीरकद्राक्षापानकादि, एतौ द्वौ भेदो, तथाशब्दो भेदान्तरसमुच्चये, तान्येवाह-वस्त्रपात्रभैषजशय्यासंस्तारः' इति, तत्र वस्त्रं-वासः कार्पासिकादि पात्रमअलाब्वादि भैषजं-त्रिकटुकादि शय्या-वसतिः संस्तार:-कम्बल्यादिलक्षणः, एतेषां च शय्यान्तानां इन्हे ।। संस्तारकशब्देन मध्यपदलोपी तृतीयातत्पुरुषः, स चैवं-वस्त्रपात्रभैषज्यशय्याभिः सहितः संस्तारः वस्त्रपात्रभैज्यशय्यासंस्तारः, एते पंच पूर्वकाभ्यां सह सप्त भवन्ति, एते चाशनादयः किमित्याह-अतिथिसंविभागे भेदाः तत्रातिथिर्नाम सर्वारम्भनिवृत्त्यादिगुणप्रधानं पात्रं, यदुक्तं-“सर्वारम्भनिवृत्तस्तु, स्वाध्यायध्यानतत्परः । विरतः सर्वपापेभ्यो, दान्तात्मा ह्यतिथिर्भवेत् ॥ १॥" तस्मै संविभागो-धर्मार्थमशनादिदानं, तथोक्तम्-" संयमगुण
For Private Personal Use Only