SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ एसो सुस्सूसणाविणओ ॥ ३ ॥" ति, तथाऽपि पौषधोपवासपारणकेऽवश्यं साधुसंभवेऽमुं कृत्वा भोक्तव्यम् अन्यदा त्वनियम इति दर्शनार्थ पौषधानन्तरमभिहित इति गाथार्थः॥भेदोऽधुनाऽस्योच्यते असणं पाणं तह वत्थपत्तभेसजसेजसंथारो। __ अतिहीण संविभागे भेया अह एवमाईया ॥ १२१ ॥ __ अश्यत इति अशनं-ओदनादि पीयत इति पानं-क्षीराश्रावणसौवीरकद्राक्षापानकादि, एतौ द्वौ भेदो, तथाशब्दो भेदान्तरसमुच्चये, तान्येवाह-वस्त्रपात्रभैषजशय्यासंस्तारः' इति, तत्र वस्त्रं-वासः कार्पासिकादि पात्रमअलाब्वादि भैषजं-त्रिकटुकादि शय्या-वसतिः संस्तार:-कम्बल्यादिलक्षणः, एतेषां च शय्यान्तानां इन्हे ।। संस्तारकशब्देन मध्यपदलोपी तृतीयातत्पुरुषः, स चैवं-वस्त्रपात्रभैषज्यशय्याभिः सहितः संस्तारः वस्त्रपात्रभैज्यशय्यासंस्तारः, एते पंच पूर्वकाभ्यां सह सप्त भवन्ति, एते चाशनादयः किमित्याह-अतिथिसंविभागे भेदाः तत्रातिथिर्नाम सर्वारम्भनिवृत्त्यादिगुणप्रधानं पात्रं, यदुक्तं-“सर्वारम्भनिवृत्तस्तु, स्वाध्यायध्यानतत्परः । विरतः सर्वपापेभ्यो, दान्तात्मा ह्यतिथिर्भवेत् ॥ १॥" तस्मै संविभागो-धर्मार्थमशनादिदानं, तथोक्तम्-" संयमगुण For Private Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy