________________
श्रीनव० वृह तौ
पौषधे.
॥ २८२ ॥
Jain Education Inter
तथा 'स्नानं शौचं तदादिर्यस्य विलेपनादेस्तत्स्नानादि तच्च 'परिमितं परिमाणवत् करोति चकाराद्यतनया च भूप्रेक्षणजलगालनादिलक्षणया, यदुक्तं - " भूमीपेहणजलछाणणाइ जयणा उ होउ पहाणंमि । " एवकारोऽवधारणेऽपरिमितादि व्यवच्छेदार्थः, तथा 'दिवा' दिवसे ब्रह्मचारी 'रात्रौ' रजन्यां ' मितं च ' सङ्क्षिप्तं च प्रहरादिमानेन गण्डपीलापूतिनिष्काशनमिवाब्रह्मासेवनं करोतीति प्रस्तावाद्गम्यते, तथा व्यापारा-गृहहट्टादिसत्काश्रष्टाविशेषाः तेषां सङ्क्षेपणं सङ्क्षेपः - समासस्तं करोतीति वर्त्तते, इह च ' जहसत्तीए उ तवं करेइ ' इत्यनेनाहार पौषधस्य 'व्हाणाई परिमियं चेवे' त्यनेन च शरीरसत्कारपोषधस्य 'दिय बंभयारि रत्ति मियं चा' नेन तु ब्रह्मचर्यपौषधस्य 'वावारसंखेव - |मेतेन चाव्यापारपोषधस्य यतना प्रतिपादिता, इयं च पौषधेऽगृहीतेऽपि गाथानिर्दिष्टविधिना वर्त्तमानस्य भवतीति । | गाथार्थः ॥ पौषधातिचारा इदानीमभिधीयन्ते --
संथार थंडिलेऽवि य अपडिलेहापमजिए दो दो ।
सम्मं च अणणुपालणमइयारे पंच वज्जेज्जा ॥ ११७ ॥
संस्तीर्यते--स्वापार्थमास्तीर्यत इति संस्तारः स च स्थण्डिलानि च -- कायिकोच्चारभूमयः संस्तारस्थण्डिलं,
For Private & Personal Use Only
भावनाअ
तिचाराच गा. ११३-७.
॥ २८२ ॥
ww.jainelibrary.org