________________
जे पोसहं तु काउं चड्या य परीसहेहि भंजति ।
नालोयंति य भग्गं भमंति भवसायरे भीमे ॥ ११४ ॥ ये' इत्यनिर्दिष्टनामानः श्रावकाः ‘पौषधं ' प्रागुक्तरूपं 'तुः' विशेषणे, चतुर्विधमपीति विशिनष्टि, 'कृत्वा ' विरच्यचइय, त्ति उद्घोजिताः 'च्याविताः' त्याजिता वा पौषधपरिणामादिति शेषः, कैः?-परीषहैः।। कर्मनिर्जरणार्थं परिषोढव्याः परीषहास्तैः-क्षुत्तृष्णामलस्त्रीप्रभृतिभिरिति हृदयं, किमित्याह- भञ्जन्ति ' विनाशयन्ति पौषधमिति प्राक्पदे-( ग्रन्थाग्रं ७५००) नैव संबध्यते, न केवलं ये भञ्जन्ति, नालोचयन्ति च भग्नमिति, | भग्नं ' विनाशितं सन्तं गुरुसमीपे न प्रकटयन्तीत्यर्थः, चकारान्मूलत एव पौषधमत्यन्तविषयाभिलाषुकतया ये न गृह्णन्ति यत्तदोर्नित्यसम्बन्धात्ते किमित्याह- भ्रमन्ति । पर्यटन्ति ' भवसागरे । संसारसमुद्रे 'भीमे । रौद्रे, प्रकृतसमुदायार्थश्चायं-ये पौषधं विधाय भञ्जन्ति भग्नं च गुरोर्न कथयन्ति मुलतो न कुर्वन्ति वा तेषां संसारसागरपरिभ्रमणलक्षणो दोष इति गाथार्थः ॥ गुणस्त्वेतत्करणे
धीरा य सत्तिमंता पोसहनिरया लहंति परमगई। दिलुतो इह संखो, आणंदो जणमणाणंदो ॥ ११५ ॥
Jain Education Internal
For Private & Personel Use Only
jainelibrary.org