________________
श्रीनव०बृहन
वृत्ती पौषधे.
२१२
॥२७१३
आहारश्च प्रागुक्तो देहसत्कारश्च-शरीरभूषा ब्रह्म च-ब्रह्मचर्य 'वावारत्ति 'अचोऽचीति लोपे अव्यापारश्च- | भिवद्वारं गा. al हलादिकर्मत्यागः, आहारदेहसत्कारब्रह्माव्यापारास्तेषां पोषध आहारपोषधो देहसत्कारपोषधो ब्रह्मचर्यपोषधोऽव्यापार-al
पोषधः,स'चतुर्की' चतुर्भिः प्रकारैश्चतुर्भेद इत्यर्थः तद्यथा-आहारपौषधो देहसत्कारपौषधो ब्रह्मचर्यपौषधोऽव्यापारपौषध । इति, पौषधशब्दस्याहारादिपदैःप्रत्येकं सम्बन्धाद्, एकैकोऽपि चाहारपौषधादिः द्विविधः विभेदो ज्ञातव्य इति सम्बन्धः, । कथमित्याह- देसे सव्वे यत्ति देशविषयः सर्वविषयश्च, तत्र देशविषय आहारपौषध एकभक्तादिः, सर्वविषयस्तु । चतुर्विधाहारनिरोधेन चतुर्थतपः, देहसत्कारपौषधोऽपि देशविषयोऽस्नानपौषधादिः सर्वविषयस्तु सर्वस्यैव स्नानोहर्त्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणादेः शरीरसत्कारस्य रागबुद्धया परिहारः, ब्रह्मचर्यपौषधो देशे दिवैव रात्रावेव ।। सकृदेव हिरेव वेत्यादिनियमेन मैथुनासेवन, सर्वत्र त्वहोरात्रं यावद्ब्रह्मचर्यपालनं, चरमस्तु देशत एकतरस्य कस्यापि १ व्यापारस्याकरणं, सर्वतस्तु सर्वेषामेव व्यापाराणां हलशकटगृहकर्मादीनामकरणं, इह चाव्यापारविषये यो देशतः पौषधं करोति स सामायिकं करोति न वा, यस्त सर्वतः पौषधं करोति स नियमात्सामायिकं करोति. यदि न विदधाति तदा तत्फलेन वंच्यते यतः सर्वतोऽव्यापारपौषधिकः सावधव्यापाररहितो ध्यानाध्ययनादिविशुद्धव्यापारः
Jain Education International
For Private Personal Use Only
www.jainelibrary.org