________________
देशावकाशिकं तावत्प्रागुक्तरूपं, पौषधोपवासस्तु कीदृश इत्याह-पौषधोपवासः पुनराहारादिनिवर्त्तनं यच्चेति, आहारः । अशनपानखाद्यस्वाद्यभेदाच्चतुर्विधः स आदिर्येषां देहसत्कारादीनां ते तथा तेषां निवर्त्तनं-नियमनमाहारादिनिवर्त्तनं ।। तद्यत्, तत् स इत्यर्थः, चशब्दो न केवलमाहरादीनां चतुर्णा निवर्त्तने पौषधोपवासः, किन्तु तदन्यतमनिवर्त्तनेपीत्यनुक्तार्थसमुच्चयार्थः, ' कर्त्तव्यः' विधेयः स नियमात् ' नियमेन 'अष्टम्यादिषु पर्वसु, अष्टमीचतुर्दश्यादिपूत्सवतिथिषु, यदुक्तं-" पौसह उववासो उण अटुमिचउद्दसीसु जम्मदिणे । नाणे निव्वाणे चाउमास
पज्जुसणे ॥ १॥', ' अट्ठाहित्ति अष्टाहिकाश्चैत्राश्वयुङ्मासानध्यायदिनेष्वष्टमीप्रभृतयो याः क्रियन्ते तासु कल्याNणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदाल
गणिः-" संवच्छर चाउम्मासिएसु अट्ठाहियासु य तिहीसु । सव्वायरेण लग्गइ जिणवरपूया तव गुणेसु ॥१॥" त्ति, यहा चकारोऽयं भिन्नक्रमस्ततः कर्त्तव्यः स चेत्यत्र योज्यः, शेषं पूर्वमिवेति गाथार्थः ॥ भेदद्वारमधुना
आहारदेहसक्कारवंभऽवावारपोसहो चउहा । एकेको चिय दुविहो देसे सबै य नायव्वो ॥ ११२ ॥
Jain Education Interna
For Private & Personel Use Only
www.jainelibrary.org