________________
तदर्थमभिगृह्यते--मा भूद् बहिर्गमनागमनव्यापारजनितः प्राण्युपनई इति, स च स्वयं कृतोऽन्येन वा कारित इति फले न । कश्चिद्विशेषः, प्रत्युत गुणः स्वयंगमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात्तदविशुद्धिरेव, इह च आद्यद्वयमव्युत्पनबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति गाथार्थः ॥ भङ्गद्वारमितः
सव्यवयाण निवित्तिं दियहं काऊण तक्खणा चेव ।।
आउट्टियाएँ भंगं निरवेक्खो सबहा कुणइ ॥ १०९ ।। 'सर्वव्रतानां स्थूलप्राणातिपातविरमणादीनां 'निवृत्ति, सङ्ग्रेपनियमलक्षणां 'दिवसं, दिनं सकल-| मिति शेषः 'कृत्वा , विधाय 'तत्क्षणादेव' सपद्येव : आकुट्टिकया। उपत्यकरणेन 'भङ्ग' सर्वनाशं निरपेक्षः ।
सर्वथा' सर्वप्रकारेण व्रतविगमं प्रतीत्येति गम्यते. 'करोति : विदधाति, अयमत्र भावार्थ:-प्राणातिपातविरमKणादीनि पूर्व यानि व्रतानि स्वीकृतानि तेषामेव कदाचित्पृथिव्यादिखननादिनिवृत्त्या सक्षेपं दिवसप्रमाणं विधाय|
तत्कालमेवोपेत्यकारेण पृथिव्यादिविनाशप्रवृत्तो देशावकाशिकव्रतस्य सर्वव्रतसङ्क्षपरूपस्य भङ्गं जनयति, तन्निरपेक्षत्वादिति गाथार्थः ॥ भावनाद्वारे गाथा
Jan Educon
For Private Personal use only
www.jainelibrary.org