________________
देशावका
श्रीनव०बृह- दिना त्वयेदमानेयमित्येवं व्यापारणमानयनप्रयोगः, प्रेष्यत इति प्रेषणः, 'कृत्यल्युटो बहुल : मिति वचनात्कर्मणि अतिचारवृत्ती
द्वारं गा. ल्युटि प्रेष्य उच्यते, तस्मिन् प्रयोगः-तद्विषयं व्यापारणं, गृहीतदिक्परिमाणादूचं स्वयं गमने व्रतभङ्गभयादन्यशिके. प्रस्थापने प्रेषणप्रयोग इत्यर्थः, 'तह ' त्ति यथा प्राक्तनावतिचारौ तथा शब्दरूपपातः, शब्दश्च-काशितादिः स्वकीयो
रूपं च-आकृतिः स्वशरीरस्य शब्दरूपे तयोः पातनं पातो-विवक्षितक्षेत्रबहिःस्थिताकारणीयस्य श्रोत्रे दृष्टौ च निवेशनं शब्दरूपपातः, पातशब्दस्य प्रत्येकं सम्बन्धेन शब्दपातरूपपातनामको द्वावतिचारावेतो, अनयोश्चैवं । संभवः-स्वबुद्धिस्वीकृतक्षेत्रात् परतः स्थितमाकारणीयं कञ्चन नरं व्रतभङ्गभयादाहातुमशक्नुवन् यदा काशितादिशब्दश्रावणखकीयरूपसंदर्शनव्याजेन तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दपातो रूपपातश्चातिचाराविति, चकारोऽग्रे दृश्यः, ततो न केवलमेतेऽतिचाराः, बहिः पुद्गलप्रक्षेपश्च, बहिः-विवक्षितक्षेत्राबाह्यभूमौ प्रयोजनभावे परप्रबोधनाय पुद्गलानां लेष्टुशर्करादीनां प्रक्षेपणं-प्रेरणं बहिः पुद्गलप्रक्षेपः स च, संभवी चायं, यदुक्तं-" सुण्णहरं जिणवरमंदिरं च पडिवज्जिऊण पोसहिओ । बहिया पोग्गलखेवेहिं कुणइ सणं स लोगस्स ॥, एवं च पञ्चेति सङ्ख्या, अतिचारान् परिहरेत, प्रस्तावादेशावकाशिकस्यातिक्रमविशेषान् परित्यजेद्, यतो देशावकाशिकमे-d
Jain Education Inter
For Private Personel Use Only
NEWw.jainelibrary.org