________________
Jain Education
3
त्मिकामेव रजनीं 'पञ्चाहमेव ' पञ्चाहोरात्राण्येव ' पक्षं वा पञ्चदशरात्रिन्दिवानि वा ' व्रतं नियमं 'इह लोके ' धारयतु' बिभर्तु पालयत्वितियावत् ' दृढं ' अत्यर्थं ' जावइयं ति यावन्मात्रं कालमिति सम्बन्धः उत्सहेत ' उत्साहं कुर्यात्, देशावकाशिकग्रहणं प्रतीति शेषः । प्रकृतभावना चेयं - यावन्तमेव कालं देशावका - शिकग्रहणं प्रत्युत्सहेत, कोऽर्थः ? - यावत् काला जीवस्यैतद्वहणे वीर्योल्लासशक्तिस्तावत्कालमेव मुहूर्त्तदिवसादिकमेतद्भूयो भूयः कुर्यात्, न त्वालस्यं विदध्यादिति, एषैवास्य यतनेति गाथार्थः ॥ अतिचाराः सम्प्रत्यस्यआणयाण पेसऽवि य पओग तह सदरूववाए य ॥ बहिपोग्गलपक्खेवो पंचइारे परिहरेजा ॥ १०८ ॥
— आणयणि ' त्ति आनयने सप्तम्येकवचनान्तं पदं, अथवा 'आण यण' त्ति सूत्रत्वाल्लुप्तसप्तम्येकवचनो निर्देशः, 'प्रेषणे ' इति च सप्तम्यन्तं 'अपि चे 'ति समुच्चये, प्रयोजनं प्रयोगः, स च द्वयोरप्यानयनप्रेषणयोः प्रत्येकं संबध्यते, तत आनयने प्रयोग एकोऽतिचारो, द्वितीयः प्रेषणे प्रयोग इति, अनयोश्चानयने प्रयोगस्तावदयम् - विवक्षितक्षेत्रबहिर्वर्त्तिनः सचित्तादिद्रव्यस्य विवक्षितक्षेत्र एवानयने -प्रापणे प्रयोगः, स्वयं गमने व्रतभङ्गभयादन्यस्य संदेशका -
For Private & Personal Use Only
www.jainelibrary.org