________________
Jain Education Intela
चतुर्विधसर्वपौषधो ध्यानाध्ययननिरतमानसः सार्वरात्रिकीं प्रतिमामभ्यस्यन् आसाञ्चक्रे, अन्यदा च क्वचित्पर्वदिवसे प्रतिमाप्रतिपन्नमेनं सौधर्मसभामध्यवर्त्ती सौधर्मेन्द्रः कथञ्चिदवलोक्यासाधारणतद्गुणानुरागरञ्जितमनाः सकलसुरसमूहसमक्षमेवं प्रशशंस, यथा-भो ! भोः ! सुराः ! शृणुत जम्बूद्वीपदक्षिणभरतार्द्धवर्त्तिचम्पापुरीवास्तव्य कामदेवसमानः श्रावको नाधुना कश्चिदीक्ष्यते यः सेन्द्रैरपि सुरैर्ध्यानाञ्चलयितुं न पार्यते, अहो ! एवं महानुभावाः केचन श्रावका अपि भवन्ति, अत्रान्तरे तादृशीं शक्रप्रशंसामुपश्रुत्यैको देवोऽश्रदधानो विधाय विकरालगजेन्द्ररूपं समाजगाम, | तत्क्षोभणाय प्रवृत्तोऽनेकप्रकारं दन्तक्षोभदानादिभिरुपसर्गयितुं न च मनागपि चचाल से महासत्त्वः, ततो विहितमनेन महाऽहिरूपं तेनापि स्फारफुत्कारविमोक्षणापूर्वमतिकोपकरालमूर्त्तिना देष्टुमारब्धोऽपि यावन्न क्षुभितस्तावद्विकृतघोरराक्षसाकारो विकटाट्टहासविमोचनावक्षोभितासन्नवर्त्तिप्राणिसार्थो विविधविभीषिकादिभिर्भीषयितुमु पचक्रमे, अत्रान्तरे महासत्त्वस्यास्य तथा निष्कारणघोरोपसर्गकरणव्यावृत्तं तं सुराधममवलोक्य कोपेनेव पाटलि ततनुरुदियाय दिवसकरः, सुरस्तु सर्वरात्रमुपसर्ग्य यावन्न शशाक तं शुद्धध्यानप्रबन्धाञ्चलयितुं तावन्निर्वेदमागतः । प्रणणाम भावसारं बभाषे च धन्यस्त्वं यस्यानलीकगुणसंस्तवं सकलसुरसभामध्योपविष्टस्त्रिविष्टपाधिपतिरपि ।
For Private & Personal Use Only
www.jainelibrary.org