SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ कस्यैतेन भङ्गेन गृहीतत्वात् , अन्यस्य त्वन्यथाऽपीति, ' अथवा ' यहा 'यथासमाधि ' समाध्यनतिक्रमण, शक्त्यनुल्लङ्घनेनेति हृदयं, ' ग्रन्थिनमस्कारपरिमाणं' इति ग्रन्थिश्च नमस्कारश्च ग्रन्थिनमस्कारौ ताभ्यां परिमाणं-परिमितत्वं यस्य देशावकाशिकस्य तद् ग्रन्थिनमस्कारपरिमाणं, देशावकाशिकं करोतीति सम्बन्धः, साधुपर्युपासनादेवभवना-1 वस्थानव्याख्यानश्रवणायुपलक्षणं चैतत्, तात्पर्यार्थस्त्वयं-यो महाधनाढयादिः कोऽप्यात्मनोऽतिव्याप्तिमालोच्य । तत्परिहारार्थं यावदेव ग्रन्थिर्वस्त्राञ्चलादौ बद्ध आस्ते तावदेतत्परिमाणं ममैतावद्देशावकाशिकं, नमस्कारपरिमाणमिति यावन्नमस्कारमुच्चारयामि, उपलक्षणव्याख्यानाच्च यावत्साधून पर्युपासे इत्यादि, परिमाणं चेति तस्येत्थमपि देशावकाशिकं जायत इति गाथार्थः ॥ एतदकरणे दोषमाह जाणतस्सवि एवं अनिवित्तीपचओ वह बंधो । तहवि न करेइ माणं दिया य राओ पमाएणं ॥ १०५॥ 'जानतोऽपि अवबुध्यमानस्यापि, आस्तामजानतः, 'एवं पूर्वोक्तरूपेण देशावकाशिकाकरण इति शेषः, किमित्याह-'अनिवृत्तिप्रत्ययो बहर्बन्धः'निवर्त्तनं निवृत्तिः-प्रत्याख्यानं न अनिवृत्तिः निवृत्तिः सैव प्रत्ययः-कारणं Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy